SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशेत्यपराये ताहगेव पादाङ्गलौ स्थापिता । द्वितीयदिने पुनः राणस्तत्रैव चन्द्रशालायां प्रसुप्तः । वण्ठश्चरणौ चम्पयति । राणकस्तथैव पटीस्थगितवदनोऽस्ति । वण्ठः पुनः पुनः मुद्रामालोकते । अहो प्राक्तनी चेयम् । ततो राणेन्द्रः प्राह-भो वण्ठ ! इमां तु मुद्रा मा प्रहीः; या कल्ये गृहीता सा गृहीता । एतद्वचनाकर्णन एव वण्ठो भील्या वज्राहत ५ इवास्थात् । यतः हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः ।। स्पृशम्नपि गजो हन्ति, जिघ्रन्नपि भुजङ्गमः ॥ १॥' तां तस्य दीनतां दृष्ट्वा 'राणेन भणितम्-वत्स ! मा भैषीः । अस्माकमेवायं कार्पण्यजो दोषो येन तेऽल्पा वृत्तिः । इच्छा न पूर्यते । १० ततो बह्वपाये चौर्ये बुद्धिः । अतः परं हय आरोहाय दीयमानोऽस्ति, लक्षार्ध वृत्तौ । इत्याश्वासितः सः । ___ अतो परिधवलः क्षमापरस्वाज्जगद्वल्लभः सेवकसदाफलत्वेम पप्रथे । स सहजदया इति कारणान्मन्त्रिभ्यां रहः कथान्तरे 'शान्ति'पर्वणि द्वैपायनोक्तभीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोक्त- १५ द्वात्रिंशदधिकारमयेतिहासशास्त्रीयाष्टाविंशाधिकारस्थं शिवपुराणमध्यगतं च मांसपरिहारं व्याख्याय व्याख्याय प्रायो मांस-मद्य-मृगयाविमुखकृतः । पुनर्मिलधारि'श्रीदेवप्रभसूरिसविधे व्याख्यां श्राव श्रावं सविशेषं तेन तत्त्वपरिमलितमतिर्विरचितः । ___ अन्येयुर्वस्तुपालो ब्राह्मे मुहूर्ते विमृशति-यद्यहंद्यात्रा विस्तरेण २० क्रियते तदा श्रीः फलवती भवेत् ।। वैश्चयित्वा जनानेतान् , सुकृतं गृह्यते श्रिया । तत्त्वतो गृह्यते येन, स तु धूर्तधुरन्धरः ॥ १ ॥ ग- पुस्तके ' स एव ' इत्यधिकम् । २ अमुष्टुप् । ३ ग- ‘राणकेन । ४.ग-पुस्तके तु पद्यमिदम् - 'श्रीणां स्त्रीणां च ये वश्या-स्तेऽवश्यं पुरुषाधमाः । त्रियः श्रियम यद्वश्या-स्तेऽवश्यं पुरुषोत्तमाः ॥१॥' ५ अनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy