________________
चतुर्विंशतिप्रबन्धे
[२४ वस्तुपाल
तानि समभोजन - वसन - भोग- वाहनानि श्रीतेजःपालस्य सहचारिणीछायावत् समजीवितमरणत्वेन स्थितानि । तद्बलेन सैन्यबलेन स्वभुजाबलेन च सर्व जीयते ।
इतश्व 'महीतटा' ख्यदेशे 'गोधा (घरा ? ) ' नाम नगरं वर्तते यंत्र ५ तत्तत्कार्येषु सङ्ग्रामे मृतानां राजपुत्राणां एकोत्तरशतसङ्ख्यानि स्वयं तु लिङ्गानि उदभूवन् । तत्र घूघुलो नाम मण्डलीकः । स 'गुर्जर 'धरासमागन्तुकसार्थान् गृह्णाति । राणश्री वीरधवलस्याज्ञां न मन्यते । तस्मै मन्त्रिभ्यां वस्तुपाल - तेजःपालाभ्यां भट्टः प्रेषितः । अस्मत्प्रभोराज्ञां मन्यस्व, अन्यथा साङ्गण - चामुण्डराजादीनां १० मध्ये मिल, इति कथापितम् । तच्छ्रवणात् क्रुद्धेन तेन तेनैव भट्टेन सह स्वभट्टः प्रस्थापितः । तेनागत्य राजश्रीवीरधवलाय कज्जलगृह शाटिका चेति द्वयं दत्तम् । उक्तं च-ममान्तःपुरं सर्वोऽपि राजलोक इति नः प्रभुणा ख्यापितमस्ति । राणेन स भट्टः सत्कृत्य प्रहितः गतः स्वस्थानम् । राणेन भाषिताः सर्वे निजभटाः । उक्तं च१५ घूघुलनिग्रहाय बीटक को ग्रहीष्यति ? । कोऽपि नाद्रियते । तदा तेजःपालेन गृहीतम् । चलितः प्रोढसैन्यपरिच्छदः । गतस्तदेशादर्वाग्भागे । कियत्यामपि भुवि स्थित्वा सैन्यं कियदपि स्वल्पम प्रास्थापयत् । स्वयं महति मेलापके गुप्तस्तस्थौ । अल्पेन सैन्येना मे गत्वा 'गोधा 'गोकुलानि वालितानि । गोपालाः शरैस्ताडिताः । २० तैरन्त'गोध्रकं' पूत्कृतम् - गात्रो हियन्ते कैश्चित् । क्षात्रं धर्मं पुरस्कृत्य ततो धावत धावत । इति शब्दे श्रुते घूघुलो विचिन्तयति - नवीनमिदम् । केनास्मपिमागत्य गावो हियन्ते ? | वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्र गोग्रहे
सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे ।
२१६
१ ग-‘गोधिरा'। २ 'यत्र' इत्यारभ्य 'उद्भूवन् ' पर्यन्तः पाठो नास्ति ग-पुस्तके | ३ ख - घ - 'स्वे सर्वे । घूघूल ० ' । ४ ख - ' गोकुलानि । ५ ग - 'ध्य चिन्तयत्' । ६ 'पादर' इति भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org