________________
प्रबन्ध प्रबन्धकोशेत्यपराह्वये
२९७ आर्तत्राणपरायणैकमनसा येषां न शस्त्रग्रह____ स्तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ॥१॥ इति वदन्नेव ससेनस्तुरङ्गमारूढो 'गतोऽनुपदं गोहर्तृणाम् । गोहतारोऽपि घूघुलाय दर्शनं ददते शरान् सन्दधते । न च स्थित्वा युध्यन्ते । इत्येवं खेदयद्भिस्तैस्तावन्नीतो घूघुलः यावन्मन्त्रि- ५ णो महति वृन्दे प्रविष्टः । ततो ज्ञातमीदृशं छभेदं मन्त्रिणः । भवतु तावत् , घूघुलोऽस्मि । निजाः सुभटाः समराय प्रेरिताः । स्वयं सविशेषमभियोगं दधौ । ततो लग्नः संहर्तुम् । मन्त्रिपृतनाऽपि डुढौके। चिरं रणरसभरोऽभूत् । भग्नं घूघुलेन मन्त्रिकटकं कान्दिशीकं "दिशो दिशं गच्छति । तदा मन्त्रितेजापालेन स्थिरं अश्व- १० स्थितेन तटस्थाः सप्तकुलीनाः शुद्धराजपुत्रा भाषिताः- अरिस्तावद् बली । आत्मीयं तु भग्नं सकलं बलम् । नष्टानामस्माकं का गतिः ।। किं यशः? । यशो विना जीवितव्यमपि नास्त्येव । तस्मात् कुर्मः समुचितम् । तैरपि सप्तभिस्तवचोऽभिमतम् । व्याघुटिताऽष्टौ घ्नन्ति नाराचादिभिः परसेनाम् । तावन्मानं स्ववृन्दं सङ्घटितं दृष्ट्वा अपरेऽपि १५ सत्त्वं धृत्वा वलिताः। तदा तेजःपाल एकत्र निजांसेऽम्बिकादेवीं अपरत्र कपर्दियक्षं पश्यति । अतो जयं निश्चित्य 'प्रहरंस्ताव ययौ यावद् घूघुल: । गत्वा भाषितः-मण्डलिक ! येनास्मन्नाथाय कज्जलगृहादि प्रहीयते तद् भुजबलं दर्शय । घृधुलोऽपि प्रत्याहइदं तद्भुजबलं पश्य । इत्युक्त्वा निबिडं युयुधे । द्वन्द्वयुद्धं मन्त्रि- २० मण्डलीकयोः सञ्जातम् । अथ मन्त्री सहसा दैवतबलभुजाबलाभ्यां तमश्वादपीपतत् । जीवन्तं बद्ध्वा काष्ठपञ्जरेऽचिक्षिपत् । स्वसेनान्तर्निनाय । स्वयं बहुपरिच्छदो 'गोध्रा'नगरं प्रविवेश । अष्टादश कोटीहेम्नां कोशं, अश्वसहस्राणि चत्वारि, मूटकं शुद्धमुक्ताफलाना,
शाईल. । २ ख-घ-'जातोऽनुपदी गो०' । ३ ग-'मन्त्रिकटकेनापि' । ग'दिशर्दिशं'। ५ 'बलं' इत्याधिको ग-पाठः । स्व-घ-'प्रसरं'। घ-'स्वसैन्यान्त.'। पविति. २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org