________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये ऊपरवटाऽश्वात् पातितः । ऊपरवटस्तैौरवैः स्वोत्तारके बन्धितः प्रच्छन्नः । रजसाऽन्धं जगत् । तदा राजश्रीवीरधवलो भुवि पातितो भदैरुत्पाट्य लले । तावता पतिता सन्ध्या । निवृत्तं सैन्यद्वयम् । रात्रौ भीमसिंहीयाः सुभटाः सर्वेऽपि वदन्ति । अस्माभिवीरधवलः पातितः पातितः । ततो मारवैरभिहितम्युष्माभिः पातित इति किमत्राभिज्ञानम् ? । तैरुक्तम्-किं भवद्भिः पातितः ।। मारवैरभिदधे-अस्माभिरेव पातितः । ऊपरवटो वदिष्यति । उत्तरकादानीय ऊपरवटो दर्शितः । तुष्टी भीमसिंहः । उक्तवांश्च 'शुद्धराजपुत्रेभ्यो दत्तं धनं शतधा फलति; इदमेव प्रमाणम् । रिपुहयहरणं क्षत्रियाणां महान् शृङ्गारः । एवं वार्ताः १. कुर्वतां भटानां रात्रिर्गता । प्रातरिधवलो व्रणजर्जरोऽपि पदभूयाक्षान् दीवितुं प्रवृत्तः । भीमसिंहसैन्यहेरिकैर्गत्वा तज्ज्ञात्वा तत्रोक्तम्-वीरधवलः कुशली गर्जति । एवं सति यजानीथ तत् कुरुथ । अथ भीमसिंहाय तन्मन्त्रिभिर्विज्ञप्तम् - देव ! अयं बद्धमूलो देशेशः । अनेन विरोधो दुरायतिः, तस्मात् सन्धिः श्रेष्ठः । भीम- १५ 'सिंहेन मानितं तद्वचनम् , परं सङ्ग्रामडम्बरः कृतः । अन्योन्यमपि यावद् मिलितौ द्वौ । तावद् भट्टैरन्तरा प्रविश्य मेलः कृतः। ऊपरवटाश्वो राणाय दापितः । भीमसिंहेन 'भद्रेश्वर'मात्रेण धृतिधरणीया । बिरुदानि न पाठनीयानि । इति व्यवस्थाऽऽसीत् । एवं कृत्वा श्रीवीरधवलो दानं तन्वन् 'धवलक्वक' मागात् । २० शनैः शनैः प्राप्तपरमप्राणो भीमसिंहमपराध्यं तं मूलादुच्छेद्य एकवीरां धरित्रीमकरोत् । एवं 'धवलक्कके' कुर्वतस्तस्य क्षुभितैः प्रभूतैः परराष्ट्रनृपतिभिः स्वं दत्तम् । तेन स्वेन सैन्यमेव मिलितम् । चतुर्दश शतानि महाकुलानि राजवंश्यानां राजपुत्राणां मेलितानि ।
१ ख-'सिद्धराज.' । २ क-'देवितु', स्व-'वेदितुं', ग-कोडितुम्' । ३ घ'सैन्यकैर्हेरिकै.'। ४ ‘एवं सति' इति ग-पुस्तकेऽधिकः पाठः। ५ क-ख-घसेनेन मतं'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org