________________
चतुर्विंशतिप्रबन्धे
[ २४ श्रीवस्तुपाठ
---
1
1
कण्ठीरवे तु दृष्टे कुण्डाः सर्वे वन्याः । अन्यश्च - प्रभो ! अस्मदीपसैन्ये 'डोडीया' वंशीयो जेडुलः 'चौलुक्यः' सोमवर्मा 'गुलकुल्यः' क्षेत्रवर्माsस्ति | देवस्तु किं वर्ण्यते कल्यर्जुनः ? । एवं बातीसु बर्तमानासु द्वाःस्थ एत्य व्यजिज्ञपद् राणकम् - देव ! पुरुष एको 1 ५ द्वारि वोऽस्ति, कस्तस्यादेश: ? । भ्रूसंज्ञया राणकस्तममोचयत् । मध्यममागत्य स उवाच - देव ! सामन्तपाला -ऽनन्तपाल-त्रिलोकसिंहैस्त्यक्तैर्भीम सिंहमाश्रितैः कथापितमस्ति — देव ! त्रिभिर्लक्षैर्ये भटास्त्वया स्थापिता भवन्ति तैरात्मानं सम्यग् रक्षः । प्रातः कुमार्या आरेण्यां (?) त्वामेव प्रथमतममेष्यामः । इति श्रुत्वा १० हृष्टेन राणेन ससत्कारं स प्रैषि । कथापितं च - एते वयमागता एव प्रातर्भवद्भिरपि ढोक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजसैौष्ठवम् । गतः स्त्र तत्र । प्रातर्मिलितं च बलद्वयम् । वादितानि रणत्र्याणि । अङ्गेषु भटानां वर्माणि न ममुः । दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं द्रव्यलक्षत्रयं भीमसिंहात् सद्यो १५ लात्वार्थिभ्यो ददे । स्वयमश्वेष्वारूढाः । प्रवर्तन्ते प्रहाराः । उत्थितमान्ध्यं शस्त्रैः । पतन्ति शराः कृतान्तदूताभाः । आरूढं प्रहरमात्रमहः । साबधानो वीरधवलः । दत्तावधाना मन्त्रयादयस्तद्रक्षकाः । अत्रान्तरे आगतास्ते त्रयो मरुवीराः । भाषितः स्वमुखेन तैवरिधवलः -- अयं देव: इमे वयम् ; सावधानीभूय रक्षात्मानम्, २० वयोधा अपि त्वां रक्षन्तु । वीरधवलेनाप्युक्तम्-किमत्र विकत्थवे क्रिययैव दो: स्थाम प्रकाश्यताम् । एवमुक्तिप्रत्युक्तौ लग्नं युद्धम् । यत्नपरेषु तटस्थेषु रक्षत्स्वपि तैर्भल्लत्रयं वीरधवलस्य माले लेगितम् । एवं त्वां हन्मः परं एकं तत्र बीटकं तदा भक्षितमस्मामिरिति वदद्भिस्तैरेव श्रीवीरधवलस्य तटस्थाः प्रहरणैः पातिताः । २५ तेऽपि त्रयो मारवाः त्रेणशतजर्जराङ्गाः सञ्जाताः । राजवीरधवलः
૨૩
१ ग - 'लिङ्गितम् ' । २ क- ख - ' व्रतजर्जराङ्गाः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org