________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये . २१३ भेटतटम् । श्रीभीमसिंहप्रतीहारेण भेटितास्ते । उक्तो वीरधवलकृतः कार्पण्यव्यवहारः । तुष्टो भीमसिंहः । कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चोक्तम्-देव! शीघ्रमेव कथापय वरिधवलाय अस्मद्बलेन, यथा-यदि क्षत्रियोऽसि तदा शीघ्रं युद्धायागच्छेः; अन्यथा अस्मदीयो भूत्वा जीवेः । प्रेषितो भीमासिंहेन भट्टः । उक्तः समेल्य ५ वीरधवलस्तत् । एवं श्रुत्वा परिधवलः ससैन्यश्चलितः । भट्ट पुरः प्राहेषीत् । 'पञ्चामा'ग्रे युद्धमावयोः । तत्र क्षेत्रं कारयन्नस्मि । शीघ्रमागच्छेरित्याद्याख्यापयत् । सोऽपि तत्र ग्रामे समेतः सैन्येन सबलः । सङ्घटिते सैन्यद्वयम् । वर्तन्ते भटानां सिंहनादाः । नृत्यन्ति पात्राणि । दीयन्ते धनानि । पूज्यन्ते शस्त्राणि । वध्यन्ते १० महावीराणां टोडराणि । त्रिदिनान्ते युद्ध प्रतिष्ठितम् । उत्कण्ठिता
योधाः । 'नेदीयानिह बाहूना-माहवो हि महामहः' । सङ्ग्रामदिनादर्वाग् मन्त्रिवस्तुपाल-तेजःपालाभ्यां स्वामी विज्ञप्तः-देव ! त्रयो मारवाः सुभटास्त्वया न सगृहीतास्ते परबले मिलिताः । तद्बलेन भीमसिंहो नि गर्जति । इति अवधार्यम् । चरैरपि १५ निवेदितमेतन्नौ । राणकेनोक्तम्- यदस्ति तदस्तु, किं भयम् ? । 'जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ?' । मन्त्रिणा ज्यायसोक्तम्- स्वामिन् ! कामुककरे देवे के परे परोलक्षा अपि ? । यदुक्तम्काल: केलिमलङ्करोतु करिणः क्रीडन्तु कान्तासखाः
कासारे बत कासराः सरभसं गर्जन्त्विह स्वेच्छया । अभ्यस्यन्तु मयोज्झिताश्च हरिणा भूयोऽपि झम्पागति
कान्तारान्तरसञ्चरव्यसनवान् यावन्न कण्ठीरवः ॥ १॥"
१ घ-'भटम्'। २ घ-'प्रतीहारः भेटितः स उत्तो' । ३ घ-'पतेः। - 'एवं श्रुत्वा' इत्यधिको ग-पाठः। ५ ध-'ग्रामामामे'। ६ 'पूज्यन्ते • टोडराणि' इत्यधिकः पाठो ग-पुस्तके वर्तते । ७ ग-योद्धाः। ८ मरुभूमिजाताः। ९ ख'साका(कासा)रे कनकासराः' । १० शार्दूल. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org