________________
चतुर्विशतिप्रबन्धे [२४ श्रीवस्तुपाल'इति श्रुत्वा सर्वेऽपि चमत्कृता राजन्यकाः । अहो प्रपञ्चेनानेनास्मान् वश्चयित्वा निर्यासे तत्त्वमेवोक्तम् । पुनः सविशेष ददुः, 'स्वामिभक्तत्वात् । तदा 'भद्रेश्वर'वेलाकूले भीमसिंहो नाम प्रतीहारस्तिष्ठति । स आत्मबली कस्याप्याज्ञां न मन्यते धनी च । तस्मै वीरधवलो राजा आदेशमदीदपत्-सेवको भव । सोऽपि 'प्रत्यदीदपत्-सेवको भव । यद् दीयते तल्लभ्यते इति न्यायः । वारधवलस्तद्विग्रहाय 'गूर्जर'धराराजपुत्रानमेलयत् बहुसैन्यं च । भीमसिंहोऽपि बलेन प्रबलः । उभयपक्षेऽपि बलवत्ता ।
__ अत्रान्तरे 'जावालि'पुरे 'चाहमान'कुलतिलकः श्रीअश्वराज१० शाखीयः केतुपुत्रसमरसिंहनन्दनः श्रीउदयसिंहो नाम राज
कुलो राज्यं भुनक्ति । तस्य दायादास्त्रयः सहोदराः सामन्तपालाऽनन्तपाल-त्रिलोकसिंहनामानो दाताराः शूराः तद्दत्तग्रासेन तृप्तिमदधतो 'धवलक्क'मागत्य श्रीवीरधवलं द्वास्थेनाबभाणन्--
देव ! वयं अमुकवंश्यास्त्रयः क्षत्रियाः सेवार्थिनरा आगताः स्मः । १५ यद्यादेशः स्यात् तदा आगच्छामः । राणकेनाहूतास्ते । तेज
आकृति-श्रमादिभिः शोभनाः । रुचितास्ते तस्य । परं पृष्टा:को प्रासो नः कल्पते ? । ते प्रोचुः-देव ! प्रतिपुरुषं 'लूणसा'पुरीयद्रम्मायां लक्षं लक्षं ग्रासः । राणकेनोक्तम्- इयता धनेन
शतानि भटानां सङ्गच्छन्ते । किमधिकं यूयं करिष्यथ ? । न २० दास्यामीयत् । इति कथयित्वा ते बीटकदानपूर्व विसृष्टाः । तदा
मन्त्रिवस्तुपाल-तेजःपालाभ्यां विज्ञप्तम्-खामिन् ! न एते "विमुभ्यन्ते । पुरुषसङ्ग्रहाद् धनं न बहु मन्तव्यम् ।।
वाजि-वारण-लोहानां, काष्ठ-पाषाण-वाससाम् ।
नारी-पुरुष-तोयानां, अन्तरं महदन्तरम् ॥ १॥ २५ एवं विज्ञप्तमपि राणकेन नावधारितम् । मुक्ता एव ते गताः प्रति
इति श्रुत्वा' इत्यधिको ग-पाठः । २ 'स्वामिभक्तत्वात्' इत्यधिको ग-पाठः । ३ घ-'प्रत्यादीदपत्' । ४ ग-'मुच्यन्ते'। ५ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org