________________
प्रबन्धकोशेत्यपराबये गतः स्वपरविभागः । वरिधवलो हत इति सैन्यद्वये ब्याचक्षे । क्षणार्धेन वीरधवलो दिव्याश्र्थाधिरूढः सारसुभटयुक् साङ्गणचामुण्डराजयोर्मेलापके गत्वा प्रसृतः । ऊचे च-रे सौराष्ट्रौ ! गृह्णीतं करे शस्त्रं यद्यस्ति तेजः । इत्युक्त्वा तच्चक्रे यद् देवैर्दिवि शिरो धनितं कुर्वद्भिर्ददृशे । हतौ साङ्गण-चामुण्डराजौ। असि- ५ मुखैः 'शोधितं रणक्षेत्रम् । पालिताः स्वे परे च पालनार्हाः। प्रविष्टो वीरधवलो 'वामनस्थली'मध्यम् । गृहीतं मालकयोः कोटिसङ्ख्यं पूर्वजशतसञ्चितं कनकम् , चतुर्दश शतानि दिव्यतुरङ्गमाणाम् , पञ्च सहस्राणि तेजस्वितुरङ्गमाणाम् , अन्यदपि मणिमुक्ताफलादि । जितं जितमित्युद्घोषः समुच्छलितः । स्थितस्तत्र मासमेकम् । ततो १० बाजामा-नगजेन्द्र-चूडासमा-वालाकादिस्वामिनः प्रत्येकं गृहीतधनाः कृताः । द्वीपबेटपत्तनेषु प्रत्येक बभ्राम । धनमकृशं मिलितम् । एवं 'सौराष्ट्र'जयं कृत्वा समन्त्री राणो 'धवलक्कं' प्राविक्षत् । उत्सवा उत्सवोपर्यपुस्फुरन् । तत्र प्रस्तावे चारणेन दोधकपादद्वयं पठितम्
जीतउं छहिं जणेहिं, सांभलि समहरि वाजियइ । एतावदेव पुनः पुनरपाठीत् , नोत्तरार्धम् । गतश्चारणः स्थस्थानम् । तत्र राजवंश्याः षण्णां जनानां मध्ये आन्मीयं नाम न्यासयितुं रात्रौ तस्मै प्रत्येकं लञ्चामदुः । सोऽपि समग्रहीत् । एवं ग्राहं ग्राहं परिपारित एकदा प्रातः सभायां बहुजनाकीर्णायां राणकाग्रे उत्तरार्धमप्यपाठीत्
२० 'बिहुँ भुजि वीरतणेहिं चहुँ पगि ऊपरवट तणे ॥ १ ॥
. ख-घ-'ब्याचक्रे' । २ घ-'श्वारूट' । ३ स्व-'गृह्णीत' । ४ ग-योधितं' । ५ ख-वाडाकादि। ६. छाया—जितं षड्भिर्जनैः श्रुत्वा सभरे गर्जति (१) । ७ गवाजतई। ८ ख-राणाने। ९ छाया-द्वाभ्यां भुजाभ्यां वीरस्य चर्तुभिः पादैः ऊपरवटस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org