________________
चतुर्विंशतिप्रबन्धे [ीवस्तुपालष्ठकुरास्ते दण्डयन्ते । ततोऽचलदयम् । 'लब्धाखादः पुमान् यत्र, तत्रासक्तिं न मुञ्चति' । ___ अथ 'वर्धमान'पुर गोहिल वाट्यादिप्रभन् दण्डयन्तौ प्रभु-मन्त्रिणौ 'वामनस्थलीं' आगाताम् । तटे चतुरकान् दत्त्वा स्थितो वीरधवला। 'वामनस्थल्यां' तदानीं यौ प्रभुसहोदरौ तौ साङ्गण-चामुण्डराजनामानौ उद्दामस्थामानौ राणश्रीवीरधवलस्य श्यालको । इति सौजन्यमर्यादां पालयंस्तद्भगिनी निजजायां नाम्ना जयतलदेवीं बहुपरिजनपरिवृतां मध्ये प्राहैषीत्। सा गत्वा सहोदरौ अभाषिष्टभ्रातरौ ! भवतां भगिनीपतिरदण्डदण्डनः अभङ्गभञ्जनः 'गूर्जर'धरायां प्रतिग्राम प्रतिपुरं दण्डयन् भवतोर्दण्डनायात्रागतोऽस्ति । दीयतां धना-ऽश्वादि सारम् । एतद् भगिनीवचः श्रुत्वा मदोद्धमातौ तौ प्रोचतुः-मन्ये वसस्त्वं ततः समायाता सन्ध्यर्थम् ; यतो माऽस्मद्बान्धवयोः समरारूढयोरहं निर्धवाऽभूकम् । एतां मा स्म चिन्तां
कृथाः । अमुं त्वत्पतिं हत्वाऽपि ते चारु गृहान्तरं करिष्यावः । न १५ च निषिद्धोऽसौ विधिः, राजपुत्रकुलेषु दृश्यमानत्वात् । ततो जयतल
देन्याह-समानोदयौँ ! नाहं पतिवधभीता वः समीपमागाम् ; किन्तु निष्पितृगृहत्वभीता। स हि नास्ति वो मध्ये यस्तं जगेदकवीरं 'ऊ'परवटा'ख्यहयारूढं नाराचान् क्षिपन्तं कुन्तं वेल्लयन्त खड्गं खेलयन्तं वा द्रष्टुमीशिष्यते । कालः साक्षादरीणां सः अदृष्टपरशक्तिः सर्वोऽपि भवति बलवान् । इत्येवं वदन्त्येव ततो निर्गत्य सा सती पतिसविधं गत्वा तां वार्तामुच्चैरकथयत् । तन्निशम्य वीरधवलः कोधकरालाक्षो भृकुटीभङ्गभीषणभालानुकृतभीमः सन् सङ्ग्रामममण्डयत् । तौ द्वावपि वीराधिवीरौ ससैन्यौ आगतौ । सङ्घटितो रणः । पतितानि योधसहस्राणि पक्षद्वयेऽपि । रजसाऽऽच्छादितं गगनम् ।
, 'साला' इति भाषायाम् । २ ख-घ- 'देवी० मध्ये प्रादेषीत् बहुपरिजनपरिवृत ताम् । ३ क-'सा' । ३ ग-'अपर०' । ४ घ-शस्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org