________________
प्रवन्धः]
प्रबन्धकोशेत्यपराहये 'छत्रच्छायाछलेनामी, धात्रा चक्रे निवेशिताः । भ्रमन्तोऽपि स्वमात्मानं, मन्यन्ते स्थिरीश्वराः ॥४॥ कालेन सौनिकेनेव, नीयमानो जनः पशुः । क्षिपत्येष धिगासने, मुखं विषयशाड्वले ॥५॥ कायः कर्मचरोऽयं तन्-मात्रकार्याऽतिलालना । भृतिमात्रोचितो ह्येष, प्रपुष्टो विचिकीर्षति ॥६॥ प्रयोजकान्यकार्येषु, नश्यन्त्याशु महापदि । दुर्मित्राणीव खान्येषु, बन्धुबुद्धिरधीमताम् ॥७॥ विषयामिषमुत्सृज्य, दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ, बिभ्यत् तेभ्यः पलायते ॥८॥ दुःखाग्निर्वा स्मराग्निर्वा, क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायान्ति, देहिनामविवेकिनाम् ॥९॥ विधौ विध्यति सक्रोधे, 'वर्म धर्मः शरीरिणाम् ।
स एव केवलं तस्मा-दस्माकं जायतां गतिः ॥१०॥ इत्यादि ध्यात्वा वस्त्राणि परावृत्य श्रीवस्तुपालः सपरिजनो १५ बुभुजे । गृहीतताम्बूलो राजकुलमगमत् । एवं दिनसप्तके गते प्रथम तद्राज्यजीर्णाधिकारी एक एकविंशतिलक्षाणि बृहद्रम्माणां दण्डितः । पूर्वमविनीतोऽभूत् । तदनु विनयं ग्राहितः । तैर्द्रव्यैः कियदपि हयपत्तिलक्षणं सारं सैन्यं कृतं तेजःपालेन । पश्चात् सैन्यबलेन 'धवलक्व' प्रतिबद्धग्रामपञ्चशतीग्रामण्यश्चिरं सञ्चितं धनं हक्कयैव द- २० ण्डिताः । जीर्णव्यापारिणो निश्चोतिताः । एवं मिलितं प्रभूतं स्वम् । ततः सबलसैन्यसङ्ग्रहपटुतेजसं श्रीवीरधवलं सहैवादाय सर्वत्र देशमध्येऽभ्रमन् मन्त्री। अदण्डयत् सर्वम् । ततोऽद्भुतऋद्धिीरधवलः। तेजःपालेन जगदे-देव ! 'सुराष्ट्र राष्ट्रेऽत्यन्तधनिन
१ ख-यत्रच्छाया.' । २ ख-'धर्मवर्म शरी०', घ-बर्मधर्मशरी०' । ३ 'नीचोवाया' इति भाषायाम् । चतुर्विशति २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org