________________
२०८
चतुर्विशतिप्रबन्धे
[२४ श्रीवस्तुपाल
दृष्टिर्नष्टा भूपतीनां तमोभि-स्ते लोभान्धान् साम्प्रतं कुर्वतेऽग्रे । तेर्नीयन्ते वर्मना तेन यत्र, भ्रामन्त्याशु व्याकुलास्तेऽपि तेऽपि॥११॥' 'न सर्वथा कश्चन लोभवर्जितः, करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः, परत्र बाधा न यथाऽत्र वाच्यता ॥
॥१२॥ पुरस्कृत्य न्यायं खलजनमनादृत्य सहजा
नरीन् निर्जित्य श्रीपतिचरितमादृत्य च यदि । समुद्धर्तुं धात्रीमभिलषसि तत् सैष शिरसा
धृतो देवादेशः स्फुटमपरथा स्वस्ति भवते ॥ १३ ॥ १० किञ्च सम्प्रति आवां 'मण्डली'नगरात् सेवार्थिनौ वः समीप
मागतौ स्तः सकुटुम्बौ । लक्षत्रयी द्रव्यस्य नो गृहेऽस्ति । यदा देवौ पिशुनवचने लगतः तदा एतन्मात्रस्वापतेयसहितौ दिव्यं कारयित्वा आवां मोक्तव्याविति । अत्र काहलिकं मर्यादीकृत्य परि
ग्रहस्य धीरा देवयोश्च भवतु इति राणकाभ्यां धीरां दत्त्वा दाप१५ यित्वा प्रधानमुद्रानिवेशस्तेजःपालस्य करे कृतः । 'स्तम्भ'तीर्थ
'धवलक्क योस्त्वाधिपत्यं वस्तुपालस्य निवेशितम् । एवं श्रीकरणमुद्रायां लब्धायां अन्यैव तयोः स्फूर्तिरुदलासीत् , देवतासान्निध्यात् सहजबुद्धिबलोदयाच्च । स्वगृहमायातो वस्तुपालः श्रीजिनराज पूजयामास । अथ तत्त्वं क्षणमचिन्तयत्--
उच्चैर्ग समारोप्य, नरं श्रीराशु नश्यति । दैन्यदत्ताऽवलम्बोऽथ, स तस्मादवरोहति ॥१॥ अन्धा एव धनान्धाः स्यु-रिति सत्यं तथा हि ते । अन्योक्तेनाध्वना गच्छ-न्त्यन्ये हस्तावलम्बिनः ॥२॥ धनी धनात्यये जाते, दूरं दुःखेन दूयते । 'दीपहस्ता प्रदीपेऽस्ते, तमसा बाध्यतेऽधिकम् ॥३॥
२५
१ शालिनी । २ ग-पुस्तके पद्यमिदं नास्ति । ३ वंशस्थविलम् | शिखरिणी। ५ अतः परं दशमपर्यन्ताना पचानां छन्दोऽनुष्टुप्' । ६ ख-'दीपहस्तप्रदीपस्ते' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org