________________
प्रबन्ध ] प्रबन्धकोशेत्यपराह्वये
२०७ द्वासप्ततिकलाविदुरौ न्यायनिष्ठौ जैनधर्मज्ञौ स्तः । यद्यादेशः स्यात् तदाऽऽनीयते। राणकादेशात् पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ आसनादिप्रतिपत्त्या गौरवितौ । उक्तौ च- श्रीलवणप्रसादादेशाद् वीरधवलेन स्वयम्आकृतिर्गुणसमृद्धिशंसिनी, नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसक्रमः, संयमश्च युवयोर्वयोऽधिकः ।। लाध्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः, स्वामिनां च पुरुषैर्भवादृशैः ॥२॥ यौवनेऽपि मदनान्न विक्रिया, नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं, केन वामिति नवाकृतिः कृता?॥३॥ १० आवयोश्च पितृ-पुत्रयोर्महा-नाहितः क्षितिभरः 'परद्रुहा । तद् युवां सचिवपुङ्गवावहं, योक्तुमत्र युगपत् समुत्सहे ॥३॥ येन केन न च धर्मकर्मणा, भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यै-लभ्यते पुरुषरत्नमुत्तमम् ॥५॥ अथ वस्तुपालः प्राहदेव! सेवकजनः स गण्यते, पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना, स्वामिना मधुरमेवमुच्यते ॥६॥ नास्ति तीर्थमिह पार्थिवात् परं, यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं, सम्पदेति च समाहिता सताम् ।।७।। सप्रसादवदनस्य भूपते-यत्र यत्र विलसन्ति दृष्टयः। तत्र तत्र शुचिता कुलीनता, दक्षता सुभगता च गच्छति ॥८॥ किन्तु विज्ञपयिताऽस्मि किञ्चन, स्वामिना तदवधार्यतां हुँदि । न्यायनिष्ठुरतरा गिरः सतां, श्रोतुमप्यधिकृतिस्तवैव यत् ॥९॥ सा गता शुभमयी युगत्रयी, देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता, नापि भूपतिषु यत्र दृश्यते ॥१०॥ २५ __ १ अतः परं दशमपर्यन्तानां पद्यानां छन्दो रथोद्धता। २ क-ब-'स्वामिन' ।
घ-'पुरहदात्' । ख-घ-'हृदा' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org