________________
२०६
चतुर्विशतिप्रबन्धे [२४ श्रीवस्तुपाल'धवलकके' शय्यायां सुखविश्रान्तं राणा श्रीवीरधवलं प्रत्यक्षीभूय जगाद-राणक ! इयं 'गूर्जर'धरा वनराजप्रभृतिभिर्मरेन्द्रैः सप्तभि'श्वापोत्कट' वंश्यैः षण्णवत्यधिकं शतं वर्षाणां मुक्ता, तदनु मूलराज-चामुण्डराज-वल्लभराज-दुर्लभराज-भीम-कर्ण-जयसिंहदेव-कुमारपालदेव-अजयपालदेव-लघुभीम-अर्णोराजैश्चौलुक्यैः सनाथीकृता । सम्प्रति युवां पिता-पुत्रौ लवणप्रसाद-वीरधवलौ स्तः । इयं 'गूर्जर'धरा कालवशादन्यायपरैः पापैः खाम्यभावात् 'मात्स्य'न्यायेन कदर्यमानाऽऽस्ते म्लेच्छैरिव गौः । यदि युवां वस्तु
पाल-तेजःपालौ मन्त्रिणौ कुर्वीथे तदा राज्यप्रतापधर्मवृद्धिर्भवति । १० अहं महणदेवी सर्वव्यापिभिर्भवत्पुण्यैराकृष्टा वदन्त्यस्मि । इति
वदन्त्येव विद्युदिव सहसाऽदृश्या बभूव । राणकश्रीवीरधवल: पद्मासनस्थस्तल्पोपविष्टश्चिन्तयति- अहो देव्युपदेशः साक्षात् ! । कर्तव्यमेव तन्मन्त्रिद्वयं यद् देव्योक्तम् । यतः
दृष्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति
_ नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावली जलधयो जनयन्ति किन्तु
संस्कारमत्र मणिकारगणः करोति ॥१॥ इत्यादि चिन्तयन् प्रातरुत्थितः । पूर्वोक्तमेवोपदेशं महणदेवी श्रीलवणप्रसादायाप्यदत्त । कृतप्रातःकृत्यौ मिलितौ पिता-पुत्रावेकत्र । कथितं रात्रिवृत्तमन्योन्यम् । तुष्टौ द्वावपि । तदैव च तेषां कुलगुरुः पुरुषसरस्वती सोमेश्वरदेवो द्विजः स्वस्त्ययनयोगात्। ज्ञापितोऽसौ तद् वृत्तान्तं ताभ्याम् । सोऽप्युवाच-देवौ ! युवयोः प्राचीनपुण्यप्रेरिता देवता अपि साक्षात् , तस्मात् तदुक्तमाचरताम् । मन्त्रि
बलं विना न किञ्चिद् राज्यपरिकर्मणम् । मन्त्रिणौ च यौ भवतोरग्रे २५ प्रतिपादितौ देव्या तावत्रागतौ स्तः । मम मिलितौ राजसेवार्थिनौ
१ ग-राज एवं चौलुक्यैः '। २ ख-'कुर्वीचे'। ३ वसन्त । ४ ख'श्वरद्विजः' । ५ घ-'क्रमणम्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org