________________
प्रवन्धः
।
प्रबन्धकोशेत्यपराह्वये
.
[२४]
॥ श्रीवस्तुपालप्रबन्धः ॥ श्रीवस्तुपाल-तेजः-पालौ मन्त्रीश्वरावुभावास्ताम् ।
यौ भ्रातरौ प्रसिद्धौ, कीर्तनसङ्ख्या तयोर्ब्रमः ॥१॥ पूर्व गूर्जरधरित्रीमण्डनायां 'मण्डली'महानगर्या श्रीवस्तुपाल- ५ तेजःपालाघा वसन्ति स्म। अन्यदा श्रीमत्पत्तन' वास्तव्य प्राग्वाटा'ऽन्वयठक्कुरश्रीचण्डपात्मजठक्कुरश्रीचण्डप्रसादाङ्गजमन्त्रि- . श्रीसोमकुलावतंसठक्कुरश्रीआसराजनन्दनौ कुमारदेवीकुक्षिसरोवरराजहंसौ श्रीवस्तुपाल-तेजःपालौ श्री'शत्रुञ्जय'-'गिरिनारा'दितीर्थयात्रायै प्रस्थितौ । 'हडालक' ग्रामं गत्वा यावत् स्वां भूतिं चि- १० न्तयन्तस्तावल्लक्षत्रयं जातं सर्वस्वम् । ततः 'सुराष्टा'त् खं सौस्थ्यमाकलय्य लक्षमेकमवन्यां निधातुं निशीथे महाश्वत्थतलं खानयामासतुः । तयोः खानयतोः कस्यापि प्राक्तनः कनकपूर्णः शौल्वः कलशो निरगात् । तमादाय श्रीवस्तुपालः तेजःपालजायां अनुपमादेवीं मान्यतया अपृच्छत्- क एतन्निधीयते ? । तयोक्तम्- १५ गिरिशिखरे एवैतदुच्चैः स्थाप्यते यथा प्रस्तुतनिधिवनान्यसाद्भवति । तत् श्रुत्वा श्रीवस्तुपालः तद्रव्यं श्री शत्रुञ्जयो'-'अयन्ता'दौ अव्यययत् । कृतयात्रो व्यावृत्तो 'धवलक्क'पुरमगात् । .
अत्रान्तरे महणदेवी नाम कन्यकुब्जेश्वरसुता जनकात् प्रसन्नाद् ‘गूर्जर'धरां कञ्चुलिकापदे लब्धां सुचिरं भुक्त्वा कालेन २० मृत्वा तस्यैव 'गूर्जर देशस्य अधिष्ठात्री महर्द्धिय॑न्तरी जाता । सा
१ अस्य सारांशः श्रीवस्तुपालचरित्ररूपकीर्तिकौमुदीप्रस्तावनायामाइग्लभाषाय निबद्धोऽस्ति । २ आर्या । ३ ख-'पूर्वे'। ४ ग-'घुकदा'। ५ ग-'चण्डपस्तदात्मज.' ६ ग-'प्रसादस्त दङ्गज०'। ७ ग-'श्रीसोमस्तत्कुलावसंतमन्त्रि श्रीआसराजः तन्नन्दनौ कुमरादेवी.'। ८ ग-'सर्व स्वं'। ९ ताम्रमयः। १० ग--'अव्ययत्। ११ ग-'महणलदेवी'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org