________________
चतुर्विशतिप्रबन्धे [ २३ श्रीरत्न श्रावकपातितानि, भवद्भिः पुनरहं पदशतकमपि गच्छन् न प्रतीक्षितः । राजा ललज्जे । चैत्यानामपातनमादिशति स्म । तस्य कुत्सितस्य राज्ञो मातापुत्रयोर्बलाद् विप्लवं कारयितुं रुचिरुत्पन्ना। वण्ठांस्तथा कारयति । एकदा एकेन वण्ठेन छन्नधृतहखकङ्कलोहकर्तृ(त्रि)कया जघ्ने । दिनकतिपयानि कीर्तिपालनामा राजपुत्रो 'गूर्जर'धराया लोकरक्षामकरोत् । छत्र-चामरादीनि न तस्य । तस्मिन् ‘मालव'सैन्ये मृते 'गूर्जर'धरायां भीमदेवो राजाऽऽसीत् । स दीर्घजीवी, पैरं विकल: पुण्याधिकः। तस्य
सोहू मोहू द्वे गड्डरिके । ते द्वे स्नपयति । सर्वाङ्गावयवविभूषिते १० कारयति । सुखासने उपवेशयति । ग्रामेषु ससैन्यो भ्रमयति । ग्रामाः सैन्यकैर्भक्ष्यन्ते । एवं बहुकालो गतः ।।
एकदा देशपालैः सम्भय राजा विज्ञप्तः-देव ! निरर्थक किमिति स्वदेशं भक्षापयसि ? । अन्न-घृत-वसनादिव्ययो वृथाऽयम्।
तदा राजा आह-कथामेकां शृणुत । १५ कचिद् वेलाकूले पूर्व जलवेगाहतो मीनस्तटे लग्नः । तदा तत्र
दुर्भिक्षं घोरम् । अन्नाभावे क्षुधार्तो लोकः । अतः सर्वोऽपि. जनो कुठाराद्यैश्छेदं छेदं तं मीनं भक्षयितुं गृह्णाति, तथापि स न म्रियते, महाकायत्वात् । अत्रावसरे क्षुधितः पत्नीप्रेरितः कोऽपि विप्रस्तन्मीनमांस ग्रहीतुमगमत् । तं अपरलोकैश्छिद्यमानं पश्यतस्तस्य खभावदयालोर्विप्रस्य दयाऽऽसीत्- न छिननि । तदा व्यन्तरानुप्रवेशात् स मत्स्यो विप्रमाह-भो छिन्द्धि माम् । अन्येऽपि खादन्तः सन्ति । तवोपकृतो भव्यः । विप्रः प्रोचे-दया मे, न छिनमि । मानो वदति-तर्हि शृणु, अयं पापी लोको मां म्रिययाणं मार
यति । अहं तु मृत्वाऽत्र तटे राजा भविष्यामि पुरन्दरो नाम । २५ राजकुलेऽवतरिष्यामि । त्वं ममोपाध्यायो भविष्यसि । अहं प्राग्
१क-'कर्तिकया' । २ क-'गुर्जरधरायां' । ३ 'परं' इत्यधिको ग-पाठः । ४ ग'तेन न छिनत्ति'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org