________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये
२०१
हेमद्वेषाद् रामचन्द्रादिशिष्याणां तप्तलोहविष्टरासनयातनया मारणं कृतम् । राजविहाराणां बहूनां पातनम् । लघुक्षुल्लकानाहाय्य प्रातः प्रातर्मंगयां कर्तुं अभ्यासयति, पूर्वमेते चैत्यपरिपाटीमकार्षरित्युपहासात् । बालचन्द्रोऽपि स्वगोत्रहल्याकारापक इति ब्रुवद्भिाह्मणैर्नृपमनस उत्तारितः । लजितो 'मालवा'न् गत्वा ५ मृतः । पापं पच्यते हि सद्यः । प्रासादपातनं दृष्ट्वा श्रावकलोकः खिद्यते । आभडः पूर्वप्रतिपन्नत्वान्मान्योऽपि वक्तुं न शक्नोति, उग्रत्वाद् राज्ञः । पैरं तेन प्रपञ्चेन तु रक्षा कारिता। कथम् ? एकदा आभडेन नृपवल्लभः कौतुकी सीलणो नाम भूरिहेमदानेन प्रार्थितः-~ तथा कुरु यथा शेषप्रासादा उद्धरन्ति । तेनो- १० क्तम्-निश्चिन्तैः स्थयम् , रक्षिष्याम्येव । सीलणेन साण्ठकसौधमेकं कृतम् । धवलितं चित्रितं च । पुत्राः पञ्च कर्णे एवमेवमुपराजं कर्तव्यं इति शिक्षिताः । गतो नृपान्तिकं सीलणो वदतिदेव ! जरा मे शिरसि स्थिता । पुत्रपौत्रवान् जातः । अधुना तीर्थयात्रायै विदेशान् यामि यद्यादेशः स्यात् । राज्ञोक्तम्-यथा १५ रुचिः तथा चेष्टस्व । तदनु तत्सौधं पुत्रांश्चादाय महासभास्थे नृपे आगात् । पुत्रा भलापिताः क्षितिपतये । पुत्राश्च भाषिता राज्ञि पश्यति सति –एतन्मे सौधं यत्नतो रक्ष्यम् । मम यश:शरीरमेतत् । यत्ननिष्पादितमिति । तैस्तथेति प्रतिपेदे । नृपादि सर्व आपृच्छय पुरस्तात् कियतीमपि भुवं यावत् सीलणो याति २० किल तावत् तैस्तत् सौधं लकुटैरास्फाल्य सद्यो भग्नम् । खटत्कारं श्रुत्वा सीलणो व्याधुटितो वदति-रे हताशाः ! अस्मादपि कुनपात् कुपुत्रा यूयम् । अनेनात्मीये पितरि मृते सति तद्धर्मस्थानानि
१ ग-पुस्तके 'जात' इत्यधिकः पाठः। २ क-घ-'लघुतः' । ३ ग-पुस्तके 'परं तेन' इत्यधिकः पाठः। क-कारापिता, तदा हा कथम् ।।५५-'सीलणो भूरि.'। ६ 'सांठानो' इति भाषायाम् । • ग-बहुयत्न.'। ८ 'नुपादि सर्व' इत्यधिको ग-पाठः। चतुर्विशति. २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org