SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०० चतुर्विंशतिप्रबन्धे [ २३ श्री आमड शाला ३ माषपिष्टकेष्टकचिताऽकारि । अमारिकारक श्रीकुमारपाल - देवसमये महाव्यापस्तस्य । 1 एकदा श्रीहेमसूरिभिः साधर्मिक वात्सल्यं महाफलमिति राज्ञे व्याख्यातम् । राज्ञा आभड उक्तः- - त्रुटितधनं श्रावककुलं दीनारसहस्रं दत्त्वद्धार्यम् । वर्षान्ते लेख्यकं वयमवधाराप्याः । आभडेन वर्षान्ते राज्ञे लेख्यकं दर्शितम् | एका कोटिरयाता । राजा याबद् दापयति तावदाभडेन विज्ञप्तम्--- देव ! भूभुजां कोशो द्विधा स्थावरो जङ्गमश्च । तत्र स्थावरो हेमादिभाण्डागारः, जङ्गमो वणिग्जनः । वणिग्धनमपि स्वामिधनमेवेति । राजोवाच१० एवं मा वादीः । लोभपिशाचो मां छलयति । तावन्मात्रं तत्काल - भवानाय्य दापितम् । राजा तुष्टः । एवं व्रजति काले राजा कुमारपालदेवः श्रीमश्च वृद्धौ जातै। । श्रीहेमसूरिंगच्छ विरोधः । रामचन्द्र - गुणचन्द्रादिवृन्दमेकतः, एकतो बालचन्द्रः । तस्य च बालचन्द्रस्य राजभ्रातृजेन अजयपालेन सह मैत्री | एकदा १५ प्रस्तावे राज्ञो गुरूणामाभस्य च रात्रौ मन्त्रारम्भः । राजा पृच्छति - भगवन्नहमपुत्रः । कं स्वपदे रोपयामि ? | गुरवो ब्रुवन्ति — प्रतापमल्लं दौहित्रं राजानं कुरु धर्मस्थैर्याय | अजयपालात् तु त्वत्स्थापितधर्मक्षयो भावी । अत्रान्तरे आभडः प्राहभगवन् ! यादृशस्तादृशः स्वकीय एवोपकारी । पुनः श्रीहेम:२० अजयपालं राजानं मा कृथाः । एवं मन्त्रं कृत्वोत्थितास्त्रयः । स मन्त्रो बालचन्द्रेण श्रुतः । अजयपालाय च कथितः । ' है ' - गच्छीयरामचन्द्रादिषु द्वेषः । आभडे तु प्रीतिः । श्रीहेमसूरे: स्वर्गगमनम् । ततो दिनद्वात्रिंशता राजा कुमारपालोऽजयपालदत्तविषेण परलोकमगमत् । अजयपालो राज्ये निषण्णः । श्री १ 'राजोवाच' इत्यारभ्य ' दापितं पर्यन्तः पाठोऽधिको 'भ्रातृब्येन' । 3 'एकदा प्रस्तावे ' इत्यधिको ग-पाठः । 'सर्वथैव' इत्यधिको ग-पाठः । ६ ग - 'कथितः । अतो हेम० ' । ५ - पुस्तकेऽस्ति । २ - ग- 'आत्मीयो भव्यः' ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy