________________
प्रबन्धःj. . प्रवन्धकोशेत्यपराह्वये
[२३]
॥ अथ आभडप्रबन्धः॥ 'अणहिल्ल'पुरे 'श्रीमाल'वंश्यः श्रेष्ठी नृपनागः । तत्पत्नी सु. न्दरी । तज्जः श्रीआभडः । तस्मिन् दशवर्षदेश्ये मातापितरौ यां गतौ । श्रीनष्टा तथाऽप्याभडः सुजनाश्रितो व्यवसायज्ञ इति ५ ववृधे । पूर्वजकीर्त्या कन्या लब्धा । परिणीतः । वृत्त्यर्थ मणिकारकाराणां गृहे घुघुरान् घर्षयति । लोष्टकान् पञ्चोपार्जति । तेषां मध्ये लोष्टिकमेकं धर्मे व्ययति । द्वौ कुटुम्बवृत्तिकार्ये । द्वौ सञ्चये विधत्ते । चतुर्दशेऽब्दे पुत्रो जातः । तस्य स्तन्यप्राप्तिरल्पा । अतश्छागीगवेषणाय आभडो बहिर्गामं गतः । तत्र आवाहे प्रातर्दन्त- १० पावनं कुरुते । अत्रान्तरे आगतं अजायूथम् । ता आवाहे सर्वाः पयः पातुं लग्नाः । पयः कम्बुधवलमपि सहसा नागवल्लीदलच्छायं जातम् । विस्मित आभडः । छागीषु पयः पीत्वा निवृत्तासु यावद् गवेषयति तावदेकस्याः कण्ठे 'टोकरकं तन्मरकतरत्नगर्भ ज्ञात्वा तेन सहसा "विक्रिये । बालोऽजीवत् । रत्नं तु शिराणे उयोतितं १५ महातेजःपुञ्जमयम् । परीक्षकाणां दर्शितम् । तैरमूल्यं भाणतम् । तदनु जेसिङ्गदेवनृपायार्पितम् । तुष्टेन राज्ञा एका वर्णकोटी दापिता । नखपृष्ठमात्रं हि तल्लक्षं लभते । आभडोऽपि तेन महर्द्धिर्जातः । सुभिक्षं च तदा । व्यवहारी जातः । श्रीजयसिंहराज्यं तदा ऋद्धम् । आभडस्य वहिकास्तिस्रः--- एका रोक्यवही, अ- २० परा विलम्बवही, तृतीया पारलौकिकवही । को भावः ? । धरणबन्धनयातनाः कस्यापि न करोति कृपाम्भोधिः । ३६ वेलातटेषु धनर्द्धिः महालाभाः। पूगहट्टिका १ निजसदनं २ श्रीहेमसूरिपौषध
१ ग-- पुस्तके 'पूर्वजकी|' इत्यधिक पाठः । २ घ-तत्र लोष्टिक.'। ३ घण्टिकाम्, 'टोकरी' इति भाषायाम् । ४ ग-विक्रीता'। ५ 'रत्नं तु. स्वर्णकोटी दापिता' इत्यधिको ग-पाठः। ६ ग-'एतावता को भावः ? |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org