________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराये
वैरादमुं लोकं नवनवभङ्गीभिः कदर्थयिष्यामि । स्वया कस्याप्यर्थे विज्ञप्तिर्नैव करणीया । त्वां तु सत्पुरुषं अहं गुरुबुद्ध्या पूजयिष्यामि । इति जल्पन् मृतः स मीनः यथोक्तो राजा पुरन्दरो नाम समभूत् । विप्रस्तु गुरुः । तं लोकं कृतपरमागसं स राजाऽपीपिउत् । विप्रस्तु तदुक्तं स्मरन् न ऊचे किश्चित् । तस्माद् भो ग्रामण्योऽहमपि तद्विवः कोऽप्यवतीर्णोऽस्मि । क्रीडया पीडयमि लोकम्, तस्माद् भवद्भिर्न वाच्यम् । वक्ष्यथ चेद् तदा रसनां छेत्स्यामि । एवं श्रुत्वा स्थितस्तूष्णीं लोकः । देशोऽपचीयते ।
आभडस्य च
एवं राज्ये आभडस्तथैव ऋद्धिमान् । चाम्पलानाम्नी बालविधवा वाग्मिनी उचितज्ञा सर्वशास्त्रविदुरा १० तनया गृहव्यापारान् करोति कारयति । एकदा लोभात् किश्चिच्चोरयन् भाण्डागारिको रुटेनाभडेन निष्कासितः। स कोपादुपभीमभूपं गत ऊचे च राजन् ! आभडस्य अनन्ता ऋद्धिः ; एवमेवं तां गृहाण । राजाऽऽह - 'कोऽप्यस्याप्यन्यायोऽस्ति ? । भाण्डागारिक ऊचे - नास्ति । तर्हि परधनं कथं वृथा गृह्यते ? | भाण्डागारिकः १५ प्राह - छलं किमपि क्रियते । राजाऽऽह - तथाऽहं करिष्यामि । इति विचार्य भाण्डागारिकं स्वसौध एव स्थापयित्वा छगीमांसं दासीशिरसि स्थालस्थं कृत्वा प्राहैषीत् । आगता सा दासी मध्याह्न आभडसदनद्वारम् । तदा आभडो ध्यानेन जिनमर्चयति । "चाम्पलया स्वयं द्वारमुदघाटि । दासी मध्यमागता । स्थालं २० दर्शितम् । चाम्पलया मांसं दृष्ट्वा तदैव भाण्डागारिक विक्रिये यमित्यूहाञ्चक्रे । मध्ये आनीता सगौरवं सा पृष्टा - किमेतत् ? । दास्याह - राज्ञा उत्सवे गौरवाय वः प्रस्थापितमदः । एतन्मांसं चाम्पलया स्थालान्तरें लातम् । सपादलक्षमूल्यहारो राज्ञेऽर्पितः ।
२०३
१ ग 'चाम्पलदे नानी' । २ क- 'न कोपि ० ' । ३ ' इति विचार्य' इत्यधिको ग- पाठः । ४-५ ग 'चाम्पलदेव्या' । । ६ ग - ' राज्ञा महिणीमोत्सवे' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org