________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये लोकश्च । रत्नश्रावकोपरोधात् पट्टमहादेवस्तत्रास्थात् । रत्नस्तूपायनं दत्त्वा राजानमूचे-राजन् ! मां नेमियात्रायैः ‘रैवत'गमनाय विसृज । राज्ञोक्तम्-स्वैरं धर्मः समाचर्यताम् । अस्माकं मतमेतत् । यद् विलोक्यते तद् गृहाण । रत्नो जहर्ष । सङ्घममेलयत् । गज-रथ-तुरग-पदातिरूपं महत्तमं सैन्यं नृपालेभे। ५ यस्य यन्न्यूनं तस्य तत् पूरयामास । अमारि-चैत्यपरिपाटिशान्तिक-भोजनवार-प्रतिलाभना-बन्दिमोक्ष-लोकसत्कारांश्चकार । गणितं मुहूर्तम् । चलितो देवालयः । राजा महोत्सवकरः परमसखा । करभशतैर्धनानि चेलः । श्रेष्ठिनी पउमिणिर्नुपपत्नी विजयदेवीं बालवयस्यां भेटयितुं जग्मुषी, पादयोस्तस्याः पेतुषी १० आपृच्छे---स्वामिनि ! यात्रायै यान्त्यस्मि । भवद्वियोगदुःखं दिनकतिपयानि धर्मलोभतः सोढुमीहेऽहम् । राज्ञी अपि शास्तुमूचेसखि ! तत्र गता धनकृशतया कार्पण्यं कृत्वा मां लज्जापात्रं मा कृथाः । स्वैरं ददीथाः । अमूनि धनानि भूषणानि वसनानि च गृहाण । इत्युक्त्वा भूरि ददे । पदानि कतिपयानि सम्प्रेषयत् । निवृत्ता १५ राज्ञी । श्रेष्ठिनी सङ्घमध्यमध्यास्त । श्रीपट्टमहादेवो गुरुः सह व्यवहरत् । तेन सनाथः सङ्घः । नित्यं धनस्य स्वैरं व्ययः । कोटीश्वराः सार्मिकाः परःसहस्राः। चन्द्रहासवणाङ्का भटाः शतसहस्राः । के भीः । एवं पथि तीर्थानि वन्दमानो रत्नः सङ्घपतिर्बान्धवद्वययुतः सपुत्रः सपत्नीकस्तावद् ययौ यावद २० 'शेला'-'तोला' ख्यौ द्वौ पर्वतो स्तः । तत्र प्राप्तः । इह किल 'शत्रुञ्जय'मध्ये भूत्वा · रैवतं ' गच्छतां लोकानां 'रोला'-'तोलौ' गिरी न स्तः; परं 'भद्रेश्वर'पथे गच्छतां स्तः । तत्र 'रोला''तोल'योरद्रर्योर्मुखे मिलित्वा 'तोडकद्वयमिव जातमास्ते । तत्र परिसरे
.. सखीम् । २ क- 'साश्रुमूचे'। ३ग-'धनकृषछूतयां'।घ- 'धनपतिधनानि'। ५ ग- 'यथेच्छं गृहाण' । ६ ग-'तेन क्व' । ग-पुस्तके 'पर' इत्यधिका पा। ८ 'तोडो' इति भाषायाम् । चतुर्विशति० २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org