________________
चतुर्विशतिप्रबन्धे [२२ भारत्न श्रावक सह आवासितः । दिनं सर्व स्नात्र-चैत्यवन्दना-दान-पूजा-भोजनादीनि खैरं ववृतिरे । रात्रौ सुखं स्थितम् । प्रातः पुरो गमनाय संनह्याचलत् सङ्घः । यावदग्रयानं गिरिमुखसङ्कटपथेन चलितुं प्रवृत्तं तावता कश्चिदेको मषीश्यामो व्यात्तवक्त्रो नरसिंहवपुरट्टहासी बहुगव्यूतोचो दंष्ट्राकरालास्यो नखरैलॊकं दारयितुं प्रववृते । भक्षयामि भक्षयामि च ऊचे । 'तद् दृष्ट्वा भीतो लोकः पश्चानिवृत्त्य गच्छति । तद् राजपुत्रैख़तम् । तैर्गत्वा स कालरूपः प्रबभाषे–कस्त्वम् ? कथं जनमुपद्रवसि ?। देवो वा दैत्यो वा
राक्षसो वा येन 'तन्नाम्ना पूजयामः । स कालमूर्तिर्वदति-किं रे १० बाढं वदथ ? । यदि पुरः पदमेकं ब्रजिष्यथ तदा सर्वान् एकैकशश्च
विष्याम्येव । इति गदति सति तस्मिन् सङ्घरक्षपालैर्भाधुव्य रत्नो विज्ञप्तः-देव ! एवमेवं वृत्तान्तः । पुरो गन्तुं न लभ्यते, अभाग्यात् । एवं दंष्ट्राचर्विता लोकाः पुरः पतिताः ‘प्रेक्ष्यन्ताम् ।
तदाकर्ण्य कर्णकटुकं विषण्णो रत्नः। क उपायः ।। का गतिः । १५ का मतिः ? इति कलकलितः सङ्घः । विशेषतः स्त्रीजनः । स्थाने स्थाने
वृन्दशो वार्ताः । केचिद् वदन्ति- पश्चान्निवृत्त्य गम्यते । अयं सर्व भक्षयिष्यत्येव । जीवन्नरो भद्रशतानि पश्यतीति । अपरे त्याहुःम्रियते चेद् म्रियताम् , गम्यते पुरः, नेमिरेव शरणम् । केचिद् द्रुमलतान्तरितास्तस्थुः । अन्ये ज्योतिषमपश्यन् । इतरे सङ्घप्रस्थानमुहूर्तदातारमानिन्दिषुः । इत्येवं विषमे वर्तमाने सङ्घपतिरत्नेन भट्टाः प्रभाषिताः-गत्वा पृच्छत तं घोरं नरं त्वं कथं प्रसीदसि, येन तत् कुर्मः पुरो बजामः । गता भट्टाः । भाषितं रत्नवचनं तदने । तेनोक्तम्---अहमेतस्या गिरिभुवोऽधिष्ठाता । एकं सङ्घप्रधानमानुषं भक्षयामि, ततस्तृप्यामि; अन्येषां नोपद्रवामि; प्रतिज्ञा
१ क- ख- 'उक्तं' । २ 'तद् दृष्ट्वा ' इत्यधिको ग-पाठः । ३ 'रजपूत' इति भाषायाम् । ४ तबाम्ना' इत्यधिको ग-पाठः। ५ ग-'चर्वयिष्या०।६ग-भटै'। "ग- 'एवं तदंष्ट्रा .'। 'ग- 'प्रेक्ष.' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org