________________
चतुर्विशतिप्रबन्धे [२१ श्रीरत्नश्रावकपूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः।। जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः ॥३॥
इदं सामान्यतः सर्वजिनसेवाफलम् । ‘शत्रुञ्जये' तु सविशेष तदेव, असङ्ख्यानां यतीनां सिद्धत्वेन सिद्धक्षेत्रत्वात् ।
धूवे पक्खोवासो, मासक्खवणं कपूरधूमि ।
कत्तिअमासक्खवणं, साहू पडिलाभिए लहइ ॥१॥ इति वचनात् । 'शत्रुञ्जया'दपि रैवत' सेवा महाफला । 'रैवतो' हि 'शत्रुञ्जयै'कदेशत्वात् ‘शत्रुञ्जय' एव, श्रीनेमिकल्याणकत्रय
भावादतिशायितमप्रभावश्च । नेमिनाथस्य माहात्म्यं मिथ्यादृशोऽपि १० प्रभासपुराणे एवं प्रवदन्तः श्रूयन्ते--
पद्मासनसमासीनः श्याममूर्तिदिगम्बरः ।
नेमिनाथः शिवेल्याख्यो, नाम चक्रेऽस्य वामनः ॥१॥ वामनावतारे हि वामनेन ' रैवते' नेमिनाथाग्रे बलिबन्धसाम
र्थ्यार्थं तपस्तेपे इति तत्र कथा । १५ कलिकाले महाघोरे, सर्वकल्मषनाशनः ।
दर्शनात् स्पर्शनाद् देवि !, कोटियझफलप्रदः ॥२॥ ईश्वरोक्तमिदं प्रभासपुराणे एवम्, तस्माद् येन नेमिनाथो वन्दितो • रैवत'गिरिमारुह्य तेन किल परमपदं श्रद्धालुना गृहीतमेवेति तत्त्व
म् । इत्येतां देशनां श्रुत्वा रत्नः श्रावक उत्थाय गुरोरने प्रतिज्ञां २० चक्रे-- मया ससङ्घन यदा रैवते' नेमिः प्रणतो भविष्यति,
तदा द्वितीया विकृतिग्रहीतव्या । तदैव एकभक्तं भोक्तव्यम् । तावन्तं च कालं यावद् ध्रुवं भूमिशय्या-ब्रह्मचर्ये धार्ये । वरं प्राणांस्त्यजामि, परं नेमिनाथं नमाम्येवेति । ततः स्वगृहमायातो राजा
१ घ-'गुणो जपः' । ६ अनुष्टुप । ३ छाया-धूप पक्षोपवासो मासक्षपणं कर्पूरधूपे ।
कार्तिकमासक्षपणं साधुः प्रतिलाभितो लभते ॥ ४ आर्या । ५-६ अनुष्टुप् । ७ क- रैवतं'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org