________________
प्रबन्धः] प्रबन्धकोशेत्यपराये
[२२]
॥ अथ रत्नश्रावकप्रबन्धः ॥ उत्तरस्यां दिशि 'काश्मीरेषु' देशेषु 'नवडल्लं' नाम महर्द्धिमत् पत्तनम् । तत्र विक्रमाक्रान्तभूचक्रो नवहंसो नाम भूपालः । तस्य राज्ञी रूपश्रीहसितरम्भाग; विजयादेवीनाम्नी । तत्रैव पत्तने ५ पूर्णचन्द्रः श्रेष्ठिराजोऽभूत् । तन्नन्दनास्त्रयः रत्नः, मदनः, पूर्णसिंहश्च । त्रयोऽपि जैनाः श्रीमन्तः प्रियंवदाः सात्त्विकाः प्राज्ञाः राजपूज्याः प्रारम्भसिद्धाः । रत्नस्य पत्नी पउमिणिरिति ख्याता। पुत्रस्तु कोमल इति नाम बालो वर्तते । तदा श्रीनेमिनाथनिर्वाणादष्टसहस्री वर्षाणां व्यतीताऽस्ति । अस्मिन्नवसरेऽतिशय- १० ज्ञानी पट्टमहादेवनामा ‘नवहुल्ल'पत्तनपरिसरे समवासार्षीत् । देवभूमिः शोधिता । उदकैरछोटिता । कनकपनं मण्डितम् । तत्र पट्टमहादेव उपविष्टः । मध्ये नगरस्य तदागमनं ज्ञापितमुद्यानपालेन लोकाय नृपाय च । प्रथममागतो नृपः सान्तःपुरपरिच्छदः सरत्न-मदन-पूर्णसिंहः। अपरोऽपि लोकस्तथैव । श्रेष्ठिनी १५ पउमिणिरपि सपुत्रा तत्रागता । एवं सभायां देव-दानव मानवविद्याधरादिवृन्दसुन्दरायां गुरुर्देशनां प्रारेभे--- यास्यामीति जिनालये स लभते ध्यायंश्चतुर्थ फलं
षष्ठं चोत्थितमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिनगृहात् प्राप्तस्ततो द्वादशं
मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥१॥ सेयं पमजणे पुन्न, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाइरं ॥२॥ घ-'कस्मीरेषु नव०' । २ क-ख-'महादेविनामा' । ३ ख-घ-तत्र सपुत्रा' । ४ शाईल । ५ छाया- शतं प्रमज्जने पुण्यं सहस्त्रं च विलेपने ।
शप्तसाहमिका मालाऽनन्तं गीतवादितम् ॥ ६ अनुपप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org