________________
चतुर्विशतिप्रबन्धे [२१ श्रीमदनवर्मततो दक्षिणापथे ' महाराष्ट्र'-'तिलङ्ग'- कर्णाट '-' पाण्डया'दिराष्ट्राण्यसाधयत् । अनन्तं धनं सङ्घटितम् । ततो गूर्जर'धरां प्रति व्याघुटत् । यावद् देशसीमसन्धौ सैन्यनिवेशं कृत्वा स्थितस्तावत् सायं एकदा महा सभायामुपविष्टोऽस्ति प्रत्यक्ष इव सुरपरिवृढः । तावत् कश्चिद् वैदेशिको भट्ट एत्याशीर्वादं भाणत्वा सभां दृष्ट्वाऽवादीदिदम् , यथा--अहो 'परमार'वंशधूमकेतोः श्रीसिद्धराजस्य सभा मदनवर्मण इव मनोविस्मयजननी । तदाकर्ण्य सिद्धन्द्रस्तमेव भट्ट पुर उपवेश्य पप्रच्छ-भट्ट ! कोऽसौ मदनवर्मा ?
क नगरे कं राज्यं करोति ? । भंट्टः प्राह-देव ! पूर्वस्यां 'महोबकं' नाम १० पत्तनं स्फारम् । तत्र मदनवर्मा नाम पृथ्वीपालः प्राज्ञस्त्यागी
भोगी धर्मी नयी नल इव पुरूरवा इव वत्सराज इव पुनरवतीर्णः पृथ्याम् । तं राजानं तच्च पुरं यः खल नित्यं पश्यति सोऽपि वर्णयितुं न पारयति, केवलं पश्यन्नन्तर्मनसं मूक इव स्वादं तद्गुणं
जानाति । अस्माकं वचसि प्रायो लोकस्य विश्वासो नास्ति, वावदू१५ कत्वात् ,परं प्रेषय कञ्चित् परमाप्तं निजे मन्त्रिणं ज्ञं येन स तामृद्धि
दृष्ट्वाऽत्रागल्य देवपादेभ्यो निवेदयति । एवं भाट्टी वाचमवधार्य सिद्धराजो मन्त्रिणमेकं कतिपयजनयुतं द्रष्टुं तत्र तेनैव भट्टेन सह प्रादेषीत् । गतौ तौ भट्ट-मन्त्रिणौ । 'महोबक'पत्तनं दर्शित भट्टेन मन्त्रिणा । दृष्ट्वा निर्विलम्बं उपराजमेत्य यथास्थितमभाणीत्अवधारय स्वामिन् ! गतस्तत्राहम् । दार्शतं भट्टेन तत् पत्तनम् । तदा वसन्तोत्सवस्तत्र प्रवर्तते । गीयन्ते वसन्ताऽऽन्दोलकादिरागैर्गीतानि । भ्रमन्ति दिव्यशृङ्गारा नार्यः। मकरध्वजलक्षभ्रान्तिमुत्पादयन्तो विलसन्ति युवानः । क्रियन्ते प्रतिरथ्यं छण्टनानि
१ क-घ-'महौं ' । २ इन्द्रः । ३ ग-'भद्र'। ४ ग-'भद्रं'। ५ ग-भद्र' । ६ग-'भद्रः' । ७ ग-'पुरुषात्तमे'। ८ ग-'पृथिग्याम्'। ९ घ-किवित्' । १० क'भद्रोक्तां'। ११ क- युक्तं'। ११ ग-'भद्रेण' । १३ क-घ-'भट्टेन प्राप्तः'। १४ क-'वसन्तमासोत्सवः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org