________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्नये
यक्षकर्दमैः । प्रासादे प्रासादे सङ्गीतकामि । देवे देवे महापूजा । भोजनवारासाराः प्रतिसदनम् । राजकीयसत्राकारे तु दालिकूरास्रावणानि मुस्कलानि न मुच्यन्ते, किन्तु गर्तायां नियन्त्रयन्ते तदा सघण्टो हस्ती निमज्जति । राजाऽश्ववाराः परितः पुरं भ्रमन्तो बीटकानि ददते लोकाय । कर्पूरैर्धूलिपर्वोदयः । रात्रौ विपणीन् ५ वणिजो न संवृणन्ति, उद्घाटान् विमुञ्चन्ति प्रातरागत्योपविशन्ति । एवं नीतिः व्यवसायोऽप्याचारमात्रेणैव सिद्धार्थत्वात् । 'तत्र देशे लोहखानिवत् सुवर्णरूप्यखानीर्वहन्ति तेन सर्वः कोऽपि । राजा तु कीदृगप्यास्ते मया स न दृष्टः । इदं तु श्रुतं स नारीकुञ्जरः सभायां कदापि नोपविशति । केवलं हसितललितानि १० तनोति प्रत्यक्ष इन्द्रः ।
एवं वचः श्रुत्वा सिद्धराजो सैन्यरक्षायां सैन्यं नियुज्य महता सैन्येन 'महोबकं प्रति प्रतस्थे । "तस्थौ तदासन्ने भूप्रदेशे क्रोशा| ( ? ) मितो देश: । स्थानाश्वलितं ' महोबक' म् । प्रधानैमदनवर्मा दिव्योद्यानस्थः स्त्रीसहस्रसमावृत्त एत्योचे - स्वामिन् ! १५ सिद्धराजो गौर्जर उपनगर मागतोऽस्ति, स कथं पश्वान्निवर्तनीयः ? | मदनवर्मणा स्मित्वा भणितम् - सिद्धराजः सोऽयं 'धारारा'यां द्वादश वर्षाणि निग्रहाय अस्थात् । स ' कबाडी' राजा वाच्यो भवद्भि :यदि नः पुरं भुवं च जिघृक्षति तर्हि युद्धं करिष्यामः । अथार्थेन तृप्यसि तदाऽर्थं गृहाणेति । ततो यद् याचते स वराकस्तद् देयं २० भवद्भिः, न वयं धने दत्ते त्रुट्यामः । सोऽपि जीवतु चिरं यो वित्तार्थ कृच्छ्राणि कर्माणि कुर्वाणोऽस्ति । राज्ञो वचोऽनुगृहीत्वा मन्त्रिणः परचक्रमगुः । तावता सिद्धसेनेन कथापितम् - दण्डं
1
9
Jain Education International
१ "कर्पूरा-गुरु- कस्तूरी कक्कोलैर्यक्षकर्दमः" इत्यमरकोशे द्वितीये काण्डे षष्ठे श्लोके । २ ख - 'वस्त्राणानि' । 3 ग-पुस्तके 'तत्र सर्वः कोऽपि' इत्यकिः पाठः । ४ 'क्रमेण ६ ख - घ - 'परमगुः ।
गच्छन्' इत्यधिको
ग-पाठः ।
५
ग - ' सोऽयं
यद्धारायाँ' |
340
For Private & Personal Use Only
www.jainelibrary.org