SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध १८५ प्रबन्धकोशेत्यपराये [२१] ॥ अथ मदनवर्मप्रबन्धः ॥ 'चौलुक्य'वंश्यो मूलराज-चामुण्डराज-वल्लभराज-दुर्लभराज-भीमान्वये कर्णदेवजन्मा मयणल्लदेविकुक्षिभू दशो रुद्र' इति विदितबिरुदः श्रीजयसिंहदेवनामाऽभन्महीपतिः । सोऽणहिलपत्तना'निर्गल्यामितैः सैन्यै मालव'देशराजधानी "धारां' द्वादशभिवर्जग्राह । प्रतोलीत्रयं स्फोटयित्वा यशःपटहकुञ्जरेण लौहीमर्गलामन्वभञ्जत् । साऽद्यापि · देवपत्तने ' सोमनाथाग्रे दृश्यते । यशम्पटहो मृत्वा व्यन्तरोऽभूत् । जयसिंहो मध्ये परपुरं प्रविष्टो मालवेन्द्रं जीवग्राहमग्रहीत् । द्वादश वर्षाणि जयसिंहस्य खड्गो १० निष्प्रत्याकारोऽस्थात् , नरचर्मघटितमेव प्रत्याकारं करोमीति प्रतिज्ञावशात्; अत एव हत्यारूढं नरवाणं भूमौ पातयामास । वितस्तिमात्रं चाहिसत्कमुदतीतरत् । अत्रान्तरे प्रधानैर्विज्ञप्तम्राजन् ! राजाऽवध्य एव इति नीतिवचः । तस्मान्मोक्तुमर्होऽयम् । ततो मुक्तः सः । काष्ठपिञ्जरे क्षिप्तः। नरवर्मचर्माऽन्यचर्मभ्यां १५ सिद्धराजेन निजकृपाणे प्रत्याकारः कारितः । ततः कवीश्वरैविविध स्तूयते सः---- एक धारा' पतिस्तेऽद्य, द्विधारेणासिना जितः । । किं चित्रं यदसौ जेतुं, शतधारमपि क्षमः ॥१॥ क्षुण्णाः क्षोणिभृतामनेन कटका भग्नाऽस्य 'धारा' ततः २० कुण्: सिद्धपतेः कृपाण इति रे मा मंसत क्षत्रियाः । आरूढप्रबलप्रतापदहनः सम्प्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हन्ता यमेधिष्यते ॥२॥ १ ग-राजदुर्लभराज । २ ग-- 'नामा महीपतिरभूत्। ३ लोहमयीम् । ४ अनुष्टुप् । ५ ग-पुस्तके इदं पधं नास्ति । ६ शार्दूल. । चतुर्विशाति. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy