________________
१७७
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये इति तावत् करे धृत्वा तस्या वेणीदण्डो 'यमुना'जलप्रवाहप्रायः कृपाणिकयाच्छिन्नः । गता सा मृगशावलोचना । वेणी करेऽस्थात् । तो वेणी पश्यंस्तां चमत्कृतचकोरचलाचलाक्षी स मुहुरस्मार्षीत् । नेत्रेन्दीवरिणी मुखाम्बुरुहिमी भ्रूवल्लिकल्लोलिनी
बाहुद्वन्द्वमृणालिनी यदि पुनर्वापी भवेत् सा प्रिया । तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल
ज्वालाज्वालमुचस्त्यजेयमसमाः प्राणच्छिदो वेदनाः ॥१॥ ततो हतप्रारम्भ उद्बाष्पः सखेदः पू:परिसरमेल्यामात्यानाहूयावादीत्- मया एवं एवं बालिकायाः कस्याश्चिद् वेणी 'छिन्ना । १० सा तु श्वभ्रमूलमगात् । अतो मम राज्येन न कार्यम् । इमामेव वेणी राज्यं कारयत । तेऽपि तथेति प्रतिपद्य पूर्बहिर्मण्डपे सोत्सवं वेणी राज्यं कारयन्ति रामपादुकावत् ।
इतश्च सा वसुदत्तिका खिन्ना गत्वा स्वसौधेऽस्वाप्सीत् । तस्याः सख्यस्तत्कबरी छिन्नामीक्षिवा नामलदेवीमाकार्याऽदीह- १५ शत् । जागरितां पुत्रीं नामलदेवी वत्से ! किमेतत् ? तवापि परिभवपदमित्यप्राक्षीत् । तनयाऽपि यथास्थितं मात्रे आख्यत् , साऽपि नागपतये स्वपतये । क्रुद्धः सद्योऽसौ तक्षकमाकार्य कथामुक्त्वाऽऽदिक्षत्, यथा- गच्छ, सराष्ट्र उदयनं भस्मीकुरु । सोऽपि तदादेशादचालीत् । 'कौशाम्बी' प्रापत् । तत्परिसरे उत्सवान् दृष्ट्वा २. नररूपः कश्चित् पप्रच्छ- किमेतदुत्सवसाम्राज्यम् । तत्रत्येन जनेनोक्तम्- एवं एवं राज्ञा दिव्यकन्यावेणी छिन्ना। उत्पन्नानुतापेन राज्यं तदायत्तं कृतम् । अतो वेणी राज्ञीह । राज्ञाऽत्रैव एकदेशे तपस्तप्यते । तक्षकेणोत्सवो दृष्टः । मध्ये भ्रमता राजाऽप्या
'घ--'वापे' । २ शार्दूल। ३ ग-'प्रारम्भोबाष्पः' । ख-घ-'छिन्नाः' ५ क-घ-- 'किञ्चित् । चतविंशति. २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org