SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [१९ श्रीवत्सराजोदयन लोकितः । कुशस्रस्तरगः पासनी जपमालापाणिः तपःक्षामः जितप्राणायामः मौनी । पृष्टश्च तक्षकेण नृरूपेण- कस्त्वम् ? किमर्थ तपश्चरसि । तेनापि दीर्घमुष्णं च निःश्वस्य गदितम्-- भो पुरुषविप्र! किं पृच्छसि मां मन्दभाग्यम् ? । दृष्टा मयैका पुण्यवती मृगदृक् । तामनुसर्पता मया पातकिना यान्त्यास्तस्याः कबरी कृपाणिकया निजपुण्यदशया सह कृत्ता। सा मनीषितं स्थानं ससर्प । अहं तु उदयनो राजा राज्यं तत्सात्कृत्वा स्वयं तपः कुर्वाणोऽस्मि । एवं श्रुत्वा क्षणं स्थित्वा उपद्रवमकृत्वा पातालं यात्वा नागेन्द्रमाललाप- निष्पापप्रज्ञः देव ! दृष्टो मया उदयनः १० वेणीपुरश्च तथा राज्योत्सवः । स पुण्यात्मा मृदुमना बाढं परित तप्यते। विनयी मानमर्हति। तन्छ्वणादतुषदाशीविषेन्द्रः । तर्हि किं युक्तमिति तक्षकमूचे । तक्षको बभाषे- देव! स एव वसुदत्तिविवाहाहः कुलेन शीलेन विद्यया वृत्तेन पराक्रमेण रूपेण च । किं वय॑ते सः । १५ *अमुमकृत यदङ्गनां न वेधाः, स खलु यशस्वितपस्विनां प्रभावः । त्रिजगति कथमन्यथा कथाऽपि, क्षत....तपसां पदं लभेत? ॥१॥ विद्या-कन्या-लक्ष्म्यो हि कुस्थाने निवेशिता निवेशयितारं शपन्ति । नामलदेवीमतं कनीमतं च लात्वा तक्षकेणैव वत्सराज माजूहवत् । प्रवेशमहमचीकरत् । विवाहः प्रारब्धः। प्रथमायां २० दक्षिणायां सवत्सा गौः कामधेनुर्लब्धा, द्वितीयस्यां विशिष्टा नाग वल्ली, तृतीयस्यां सोपधाना खट्वा सतूलिका, चतुर्थ्यां रत्नोद्योतो दीपः । एवं रत्नचतुष्केण सत्कृत्य सजायं जामातरं 'कौशाम्बी'पुरी प्रति प्रेषयत् । गतः स्वपुर तत्र ऋद्धं राज्यं भुनक्ति । *सुधाधौतं धाम व्ययभरसहश्चार्थनिवहः २५. सकामा वामाक्षी सुहृदपि निवेद्यात्महृदयः । ___ १ ख-'दवाया (?)। * एतचिह्नाङ्कित पद्ये ग-पुस्तके न वर्तेते । ३ पुग्पिताया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy