SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १७६ चतुर्विंशतिप्रबन्धे [१९ श्रीवत्सराजोदयन कादिद्रुमाणां सारणीनां द्रुमालवालानां वाटीकोट्ट(वाटिकोट ?)स्य श्रीः। यदि स्वामिनी तत्केलिं काम्यति तदा तत्र पादमवधारयतु । इदं श्रुत्वा सा वसुदत्तिका ताभिः सर्वाभिः १४ सहेच्छासिद्धया सहसा तद् वन प्राप्ता । तत्र केलिं कुर्वन्ति ताः । कुसुमानि चिन्वन्ति । तैः करण्डान् पूरयन्ति । धमिल्लानुत्तङ्गयन्ति । हारान् सारान् रचयन्ति । एवं खेलन्तीनां तासां वने कोकिलफुलकलरवकलः कोलाहल उच्छलितः । तदाऽऽकर्णनादुद्यानपालक एत्य ता अद्राक्षीत् । अहो रूपमहो स्वरोऽहो प्रभेति विसिष्मिये । भक्त्या श्रीउदयनं ताः समा लोकितुमाह्वातुमगमत् । उदयनोऽपि कुतूहलादल्पपरिच्छदो वन१० मगात् । वसुदत्तिं ससखीकामालोकिष्ट । अध्यासीच्च- मनो जन्मनः महाव्याधेः परमरसायनमेतत् । अस्याः रूपसम्पत् जिह्वाभिः कोटिभिः ताभिर्वर्णयितुमशक्या । अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः - शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । १५ वेदाभ्यासजडः कथं तु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवन्मनोहरमिदं रूपं पुराणो मुनिः ? ॥१॥" यत् पश्यन्ति झगित्यपाङ्गसरणिद्रोणीजुषा चक्षुषा गच्छन्ति क्रमलालितोभयभुजं यन्नाम वामभुवः । भाषन्ते च यदुक्तिभिः सचकितं वैदग्ध्यमुद्रात्मभि स्तद् देवस्य रसायनं रसनिधैर्मन्ये मनोजन्मनः ॥२॥ तं दृष्ट्वा सा पलायिष्ट । नृपोऽप्यन्वगाद् द्रुतं द्रुतम् । क्षणार्धेन सर्वाः सख्योऽदृश्याः समपत्सत । साऽपि पातालविवरप्राये गर्त एकस्मिन् प्रविष्टा । राज्ञाऽपि ज्ञातम्-कामरूपिणी गमिष्यत्येव १ घ-'सिद्धा' । २ घ-'जग्मुषी'। ३ ग-पुस्त के 'मनोजन्मन: अशक्या' एतदाधिक्यम्'। विक्रमोर्वशीये (१.८)। ५ सर्जनकार्ये । ६ ब्रह्मा । ७ साईल. । ८ ग-कोलितो.'। शार्दूल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy