________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये
[१९]
॥ अथ वत्सराजोदयनप्रबन्धः॥
पूर्वस्यां 'वत्सो' जनपदः । तत्र कौशाम्बी' पूः । श्रीऋषभबंश्यशान्तनु-विचित्रवीर्य-पाण्डु-अर्जुना-ऽभिमन्यु-परीक्षितजनमेजयकुले सहस्रानीको राजा । तत्पुत्रः शतानीकः। ५ तस्य पत्नी महासती चेटकराजनन्द(न्दि)नी मृगाक्षी मृगावती नाम । तयोर्नन्दन उदयनः यः किल 'नादसमुद्रो' विख्यातः, यो गीतशक्त्या 'उज्जायन्यां' 'अनलगिरी'भं 'विन्ध्या' ऽभिमुखं गच्छन्तं पुनरालाने निवेश्य चण्डप्रद्योतराज्यमद्योतयत् । स सुखेन राज्य शास्ति यौवनस्थो भोगी कलासक्तो धीरः ललितो नायकः। १०
इतश्च पाताले 'क्रौञ्चहरणं' नाम पत्तनम् । तत्र वासुकिः सर्पराजः श्वेतो नीलसरोजलाञ्छितफणः । तस्य नामलदेवी नाम दयिता। विपुलो देशः। तक्षको नाम तस्य प्रतीहारो विषमादेवीप्रियः यस्य फणामण्डपे त्रयोदशभारकोटयो विषस्थ वसन्तीति श्रुतिः । वासुकेः पुत्री दिव्यरूपा कनी वसुदत्तिनामा । तस्याः १५ सख्यश्चतुर्दश, तद्यथा- धारू(:) १ वारू(:) २ चम्पकसेना ३ वसन्तवल्ली ४ मोहमाया ५ मदनमा ६ रम्भा ७ विमलानना ८ तारा ९ सारा १० चन्दनवल्ली ११ लक्ष्मी(:) १२ लीलावती १३ कलावती १४ । सा ताभिः सह वीणा-मृदङ्ग-वंश-सूक्तादिभिः क्रीडति ।
एकदा तासां मध्यादेकयोक्तम्- स्वामिनि ! वसुदत्तिके ! अहं स्वपरिच्छदा सध्रीची नरलोके 'कौशाम्ब्या' दिव्यरूपं महोद्यानं क्रीडितुमगाम्। दृष्टा तत्र बकुल-विचकिल-दमनक-चम्पक-विरह
१ पुत्री। २ ब-'कल्पवती' । ३ सखी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org