________________
१७४
चतुर्विंशतिप्रवन्धे [१८ श्रीनागाउँमरैन्धनीमालपतः- त्वं नागार्जुनाय रसवती लवणबहुला कुर्याः । यदा तां रसवती क्षारां कथयति तदाऽस्मभ्यं वदेः । साऽप्योमिति प्रतिशुश्राव । अथ सा तज्ज्ञानार्थं तदर्थ सलवणां रसवती साधयति । षण्मास्यामतिक्रान्तायां रसवतीं तेन क्षारेति दूषिता । रन्धन्या च राजपुत्रयोरने गदितम्- अद्य क्षारत्वं जज्ञे नागार्जुनेन । ताभ्यामपि तस्य रससिद्धिनिश्चिक्ये । अथ तौ तस्य वधोपायं ध्यायतः पृच्छतश्च लोकं तज्ज्ञम् । पृच्छद्भ्यां ज्ञातम् , यथावासुकिना एवास्य दर्भाङ्कुरान्मृत्युः कथितोऽस्ति । नागार्जुनेन
सिद्धस्य शुद्धस्य रसस्य कुतपौ द्वौ भृतौ 'ढङ्क' पर्वतस्य गुहायां १० क्षिप्तौ । पृष्ठचराभ्यां ताभ्यां ज्ञातौ । मुक्त्वा पलमानो नागार्जुनस्ताभ्यां सम्मुखस्थो दर्भाङ्कुरेण जन्ने । मृतः सद्यः ।
आलेख्ये चित्रपतिते, मृते च मधुसूदन!। क्षत्रिये त्रिषु विश्वास-श्चतुर्थो नोपलभ्यते ॥१॥'
तौ कुतपौ देवतया सगृहीतौ । राजपुत्रौ नरकपैङ्कगोचरतां १५ गतौ । देवतया क्रुद्धया हतौ । न रसलाभो, न च धर्मस्तयोः ।
तावपि राजपुत्रौ मरणकाले पश्चात्तापेन देग्धौ -- हा हा येन खटिकासिद्धिवशाद् दशाहमण्डपादिकीर्तनानि रैवतो' पत्यकायां कृतानि येन रसो लोकोपकाराय साधितः तस्य प्राणद्रोहेणावाभ्यां किं साधितम् ? । एकं तावत् कलापात्रद्रोहः, अपरं च मातुलद्रोहः । एवं दुःखा? मृतौ । रसस्तम्भनात् 'स्तम्भनं' नाम तीर्थ तत् पार्श्वदेवस्य । कालान्तरे तद् बिम्बं ततः स्थानात् 'स्तम्भन'पुरे पूज्यतेऽधुना ॥
॥ इति नागार्जुनप्रबन्धः ॥१८॥
F
१ 'राधनारी' इति भाषायाम् । २ घ- 'तदा वदेः'। ३ अनुष्टुप् । घ'पङ्कजगोचर' । ५ ख-घ-'जग्धौ' । ६ 'समाप्तः' इत्यधिकः ख-घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org