________________
१७३
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये नाथस्य दृशि साध्यमानः सर्वलक्षणोपलक्षितया महासत्या योषिता च मृद्यमानो रसः स्थिरीभूय कोटिवेधी भवति । तच्छुत्वा स पार्श्वनाथप्रतिमां समहिमामन्वेषयितुमारेभे । परं तादृशीं न कापि पश्यति ।
इतश्च नागार्जुनेन स्वपिता वासुकिर्ध्यात्वा प्रत्यक्षीकृतः, ५ पृष्टश्च- श्रीपार्श्वनाथस्य दिव्यकलानुभावां प्रतिमां कथय । तेनावोचि- 'द्वारवत्यां' समुद्रविजयदशाhण श्रीनेमिनाथमुखान्महातिशयसम्पन्ना ज्ञात्वा श्रीपार्श्वस्य प्रतिमा प्रासादे स्थापयित्वा पूजिता । 'द्वारवत्या' दाहान्तरं समुद्रेण प्लाविता सा प्रतिमा तथैव समुद्रमध्ये स्थिता। कालेन 'कान्ती' वासिनो धनपतिनामकस्य १० सांयात्रिकस्य यानपात्रं देवताऽतिशयात् स्खलितम् । अत्र जिनबिम्बं तिष्ठतीत्यदृष्टवाचा निश्चित्य नाविकांस्तत्र निक्षिप्य सप्तभिरामसूत्रतन्तुभिर्बद्ध्वोद्धृता प्रतिमा निजनगीं नीत्वा प्रासादे स्थापिता । चिन्तितातिरिक्तलाभप्रहृष्टेन पूज्यते स्म प्रतिदिनम् । ततः सर्वातिशायि तद् बिम्बं ज्ञात्वा नागार्जुनो रससिद्धिनिमित्तम- १५ पहृत्य 'सेडी' नद्यास्तटेऽतिष्ठिपत् । तस्य पुरतो रससाधनार्थं सातवाहनस्य राज्ञश्चन्द्रलेखाभिधां महासती देवीं 'सिद्धव्यन्तरसान्निध्येनानाय्य प्रतिनिशं रसमर्दनं कारयति । एवं तत्र भूयो भूयो गतागतेन तया वान्धव इति प्रतिपेदेऽसौ । सा तेषामौषधानां मर्दन कारणं पृच्छति । स च कोटीवेधस्य रसस्य वृत्तान्तं सत्यं २० कथयति । अन्यदा द्वयोनिजपुत्रयोस्तया निवेदितम् , यथा- 'सेडी'नदीतटे नागार्जुनस्य रससिद्धिर्भविष्यति । तौ रसलुब्धौ निजराज्यं मुक्त्वा नागार्जुनान्तिकमागतौ । कैतवेन तं रसं जिघृक्ष प्रच्छन्नवेषौ यत्र नागार्जुनो जेमति तस्य गृहस्य परिसरे भ्रमतः ।
१ 'परं० पश्यति' इत्यधिको ग-पाठः । २ घ-सव्यन्तर०' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org