________________
२७२
चतुर्विंशतिप्रबन्धे [१८ श्रीनागार्जुन
[१८] ॥ अथ नागार्जुनप्रबन्धः॥ 'टैक' पर्वते 'सुराष्ट्रा(ष्ट्र)'भूषण शत्रुञ्जय' गिरिशिखरैकदेशरूपे राजपुत्ररणसिंहस्य भोपालनाम्नी पुत्री रूपलावण्यसम्पूर्णा पश्यतो जातानुरागस्य सेवमानस्य वासुकिनागस्य पुत्रो नागार्जुननामा जातः । स च जनकेन पुत्रस्नेहमोहितेन सर्वासां महौषधीनां फलानि मूलानि दलानि च भोजितः । तत्प्रभावेन स महासिद्धिभिरलङ्कृतः। सिद्धपुरुष इति विख्यातः । पृथ्वीं विचरन् 'पृथ्वीस्थान'पत्तने सातवाहनस्य राज्ञः कलागुरुर्जातः । स च गगनगामिनीविद्याध्ययनार्थ 'पालित्तानक पुरे श्रीपादलिप्ताचार्यान् सेवते । अन्यदा भोजनावसरे पादललेपबलेन तान् गगने उत्पतितान् पश्यति । 'अष्टापदा दितीर्थानि नमस्कृत्य स्वस्थानमुपागतानां तेषां पादौ प्रक्षाल्य सप्तोत्तरशतमहौषधीनां आखादेन वर्णगन्धादिभिर्नामानि
निश्चित्य गुरूपदेशं विनाऽपि पादलेपं कृत्वा कुर्कुटपोत इवोत्पतन्न१५ वटतटे निपतितः । व्रणजर्जरिताङ्गो गुरुभिः पृष्टः-किमेतदिति ? ।
तेन यथास्थिते प्रोक्ते तस्य कौशल्येन चमत्कृतचित्ता आचार्यास्तस्य शिरसि पद्महस्तं दत्त्वा भणन्ति- षष्टिकतन्दुलोदकेन तान्यौषधानि वर्तयित्वा पादलेपं कृत्वा गगने गरुड इव स्वैरं क्रेज । ततस्तां
सिद्धिं प्राप्य परितुष्टोऽसौ ननत । पुनरपि कदाचिद् गुरुमुखादा२० कर्णयति यथा रससिद्धि विना दानेच्छासिद्धिर्न भवति । ततो रसं
परिकर्मयितुं प्रवृत्तः स्वेदन-मर्दन-जारण-मारणानि चक्रे । रसस्तु स्थैर्य न बध्नाति । ततस्तु गुरून् पप्रच्छ--कथं रसं(सः) स्थैर्यमाबध्नाति ? । गुरवः प्राहुः, यथा दुष्टदैवतनिर्दलनसमर्थायां श्रीपार्श्व
१ ख-'दुङ्कः' । २ घ-'गामिविद्या०' । ३ क-भणितम्' । ४ ख- पादप्रलेप' । ५क- 'बजेः' । ६ स-'प्रतिष्टोऽसो'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org