________________
चरित्रम् ] प्रवन्धकोशेत्यपराह्वये यितुमुपतस्थे तदा रुद्रस्तां पुरं स्वैर्गुणैरुद्घाट्य सर्वां तद्धेमादिविभूतिं युधिष्ठिरगृहप्रविष्टामचीकरत् । ततो युधिष्ठिरस्य दानेच्छासिद्धिः । ततः स राजा । मण्डलीकस्तु रावण इति लोके तादृग्बलविद्यादयोगात् । कुमारस्तु कार्तिकेयो वक्तुं युक्तः सप्ताहवयाः सन् यस्तारकं जघान । लक्ष्मणोऽपि कुमारः यो ५ मेघनादं ममर्द । तथा धवलचन्द्रोऽपि पीहुलिपुत्रः कुमारो यो विषेण जगद् हत्तु (न्तुं ?) क्षमः। विषममपि विषममृततां नेतुं समर्थः । अङ्गदोऽपि समर्थः ।
सन्धौ वा विद्महे वाऽपि, मयि दूते दशाननी ।
अक्षिता वा क्षिता वाऽपि, क्षितिपीठे लुठिष्यति ॥ १ ॥ १० इत्यादि स्यातश्च वण्ठस्तु सत्यो हनूमान् यः स्वामिनं रामं प्रियावियोगज्वरजर्जराङ्ग सन्धीरयामास मध्येसभम् । देवाज्ञापय किं करोमि ? किमहं 'लङ्का' मिहैवानये ? _ 'जम्बूद्वीपमितो नये ? किमथवा वारांनिधिं शोषये ? । हेलोत्पाटित विन्ध्य'पर्वतहिमस्वर्णत्रिकूटाचल
क्षेपक्षोभविवर्धमानसलिलं बध्नामि वा वारिधिम् ? ॥१॥ इत्यादि चमत्कारिवामिकार्यसिद्धिसारतया वण्ठो हनूमानेव । तलारक्षस्तु भवसि । गच्छ मूल्यं नास्ति रत्नस्येति द्विजाय वदेः । तदाकर्ण्य विक्रमःखपुरीं ययौ । रत्नं दत्त्वा बल्युक्तमुक्त्वा स्वग्रामाय विप्रं विसृष्टवान् । चिरं राज्यं चक्रे ।
इति विक्रमार्कः ॥ ग्रंथ १४० ॥
१ इन्द्रजितम् । २ अनुष्टुप । ३ शार्दूल० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org