________________
१७०
चतुर्विंशतिप्रबन्धे
[ श्रीविक्रम
1
किं युधिष्ठिरोऽसि ? । विक्रमेणोक्तम्- राजानं युधिष्ठिरं मन्यते स, तस्मादन्यद् वक्तव्यम् । गच्छ कृष्ण ! मण्डलीक आगतोऽस्तीति वद । गतः सः | विज्ञप्तं तत् । बलिरूचे - मण्डलीकः किं रावण: ? । पुनरागतः कृष्णः । मण्डलीकश्चेत् किं रावण इति पृष्टोऽसि । विक्रमेणाभाणि - तर्हि गत्वा वद कुमार आगतोऽस्ति । गत्वा तथोक्तम् । बलिराह- किं कार्तिकेयः ? किंवा लक्ष्मणः १ किंवा पातालवासी नागपुत्रो धवलचन्द्रः ? किं वालिपुत्रेोऽङ्गदो रामदूत इति ख्यातः । पुनरेहिरे या हिरा ? कृष्णस्य | विक्रमेण पुनरभाणि - वदेस्त्वं वण्ठ आयातोऽस्ति । पुन१० र्गतः । बलिर्भणति - वण्ठश्चेत् किं हनूमान् ? । पुनः कृष्णो वागरितः । भणितं बलिवचः । पुनर्विक्रमः प्रोचे - गत्वा वद तलारक्ष आगतोऽस्ति । उक्तं तेन तत् तथा तत् । बलिर्जगाद - किं विक्रमकः । कृष्णेनैत्य पृष्टम् - किं विक्रमादित्यः १ । ओमित्युक्तम् । बल्यादेशादुपबलि नीतः । पृष्टो बलिना रे विक्रम ! १५ रत्नमूल्यं प्रष्टुमागतोऽसि ? | विक्रमादित्यो वदति - इत्थमेव । दन्दशितं रत्नम् । बलिभाण - ईदृशानि अष्टाशीतिं सहस्राणि रत्नानि नित्यं युधिष्ठिरो निर्मूल्यानि अदत्त पात्रेभ्यः । तेषां मध्यादिदं अरु (ग ?) लत् । विप्रेण लब्धम् । प्रायो भूमिं गतानि सर्वाणि रत्नानि, कालस्य बहुलत्वात् । ततो राजा युधिष्ठिर एव, त्वं कः ? । विक्रमे२० णोक्तम् - देव ! सत्यमेतत् तुष्ट इच्छामि ईदृक्सम्पत्तिर्युधिष्ठिरस्य कुत: ? । बलिराह - दिग्जयधनानि तस्मै भ्रातृभिश्चतुर्भिराहृतानि । पूर्व मरु ( द ) त्तनामा काटिको दारिद्यमग्नो रुद्रमारराध । तेन तुष्टेन तस्मै स्ववाञ्छया 'कैलासा' सन्ना आमूलचूलं हेमरत्नमयी पूर्निष्पाद्य दत्ता । सा तेन भुक्ता । तस्मिन् मृते रुद्रेण पांशुवृष्टया २५ सा पिदधे । यदा युधिष्ठिरबान्धवः सहदेव उत्तरां दिशं साध
१ घ - 'गच्छ वद' । २ ख - 'मेवेदं दर्शितं । घ- 'चमत्कृतनामा' |
Jain Education International
३ घ -'सन्तुष्टत्सा (?)मि ईदृकू' ।
For Private & Personal Use Only
www.jainelibrary.org