________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये चोपकारैश्वर्य तदा निरुपममासीत् ततो विक्रमो धन्य एव । ततोऽधिकास्तु परःकोटयोऽभूवन् । इत्याकर्ण्य विक्रमसेनो विवेकी अभूत् ॥
॥ इति विक्रमादित्यप्रबन्धः ॥ १७ ॥
अथ विक्रमचरित्रम् । जैनतत्त्वबाह्यमुग्धजनचित्रमात्रफलं विक्रमादित्यप्रबन्धमेकं ब्रूमः । 'उज्जयिन्यां' राज्य शासति विक्रमादित्ये 'आसन्ने ग्रामे विप्रेणैकेन हलं खेडयता दिव्यं ज्योतिष्मद्रनमेकं भूमौ पतितं जगृहे । तन्मूल्यप्रश्नार्थ ‘उज्जयिन्यां' रत्नपरीक्षिनेगमपार्श्वमागमत् । दर्शितं तद् रत्नम् । विस्मिता ते ऊचुः-न वयमस्य रत्नस्य १० मूल्यकरणे क्षमाः, ईदृशस्य पूर्वमदृष्टत्वात् अलीकमूल्यकरणे तीव्रदोषाच्च, केवलं देवः श्रीविक्रमादित्यो यदि वेत्ति मूल्यमस्य, स हि रेखाग्राप्तो रत्नमूल्यज्ञाने । विप्र उपविक्रमं जगाम । रत्नमदीदृशत् । विक्रमेण पृष्टम्-क्क लग्धमिदम् ? । विप्रेणोक्तम्- देव ! इलं खेटयता स्वक्षेत्रभूमौ लब्धम् । राज्ञा भणितम्-तर्हि दिन- १५ द्वयेन वक्ष्यामः । रत्नमस्मद्धस्त एवास्तु विग्र! मा भीः, न वयं परधनबद्धाभिलाषाः । धीरां दत्त्वा स्वसौधमध्य एव स्थापितः सः। __ अथ रात्रौ विक्रमेण विमृष्टा रत्नपरीक्षकाः संसारे। बलिमनु स च पाताले । तत्रापि गन्तव्यम् । कुतूहली बलसो न भवेत् । ततोऽ. ग्निवेतालमारुह्याशु पातालं गतः बलिभुवनद्वारेऽस्थात् । तत्र २० नारायणो द्वास्थः प्रणतः । नारायणेन पृष्टम्-- किं कार्य तेऽत्रागमने । विक्रमेणोक्तम्-उपबलि गतः विज्ञापय राजा कार्यगौरवादायातोऽस्ति । यद्यादेशः स्यात् तदा दर्शनं लभेत । गतः कृष्णः। उक्तं बलये-राजा समागतोऽस्ति द्वारे । बलिना निवेदितम्राजा चेद् युधिष्ठिरः ? । पृच्छेः कृष्ण !। गतः कृष्णः पप्रच्छ- २५
१ इदं चरितं नास्ति ग-पुस्तके। २ ख-'आसन्नग्रामे'। ३ 'खेडता' इति भाषायाम्। चतुर्विशति० २२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org