SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिशयम्धे [१७ श्रीविक्रमादित्य श्रीरामः प्रजावत्सलः प्रातः ससीतः सलक्ष्मणः सामात्यस्तचर्मकारभवनमगात् । तन्मध्यं प्रविष्टः । पूजितः 'कारुभिर्विस्मितैः । विज्ञप्तश्च- देव ! अयभस्मान् कीटान् प्रति कियान् प्रसादः कृतः । स्वप्नेऽपि नेदं सम्भाव्यते यद् देवोऽस्मानुपतिष्ठते । किं कारणमागमनस्य ? । श्रीरामः प्राह- त्वत्पुत्र्याः श्वशुरकुले प्रेषणायायाताः स्मः । तस्या हि वराक्यास्तथाविधा सन्धाऽऽस्ते । ततो दृष्टस्तजनकः अपवरकं गत्वा दुहितरमाह स्म- मुग्धिके ! तव प्रतिज्ञा पूर्णा । श्रीरामदेवोऽप्यायातः सदेवीकः । एहि, वन्द स्व तं जगत्पतिम् । ततस्तुष्टा रामान्तिकमागता । ववन्दे तम् । १० आलापिता प्रजातातेन- वत्से ! गच्छ श्वशुरमन्दिरम् । तया भाण तम्- आदेशः प्रमाणम् । ततो गता पतिगृहम् । रामः स्वस्थानमायासीत् । श्रीविक्रम! अस्या द्वितीया उपानत् तत्र पितृगृहे खन्यमाने लप्स्यते । स्वामिन् ! आयाहि तत् खान्यते । गतो राजा तत्र । खानितं तत् । लब्धा द्वितीयाऽप्युपानत् । दृष्टं हैमं गृहम् । १५ एवमन्यान्यपि तेन विप्रेण खानयितानि लातं तद्धेम । राज्ञा विप्रः पृष्टः- विप्र! कथमीदृशं सम्यग् जानासि?। विप्रेण गदितम्-- पूर्वजपारम्पर्योपदेशाज्ज्ञातं तुभ्यमुक्तं च । परं गर्व मा धाः । स रामः स एव । तस्य ह्याज्ञया जलज्वलनौ स्तम्भेते स्म । पतन्त्यो भित्तयो दत्तायां तदाज्ञायां न पेतुः । लूना द्विचत्वारिंशत् अन्ध२० गडाः सप्तविशतिः स्फोटिका अष्टोत्तरशतं विड्वराणि दोषाश्च सर्वे व्यनेशन् । या तु तदेवी सीता ये त्रयस्तद्भातरो ये तभृत्या हनूमत्-सुग्रीवादयस्तेषां महिमानं वर्षशतेनापि वापतिरपि वक्तुं न शक्तः । इति श्रुत्वा विक्रमेण गर्यो मुक्तः । बिरुदं निषिद्धम् 'अभिनवराम' इति । पुनरुज्जयिनी'मागात् । यथाशक्ति लोक२५ मुदधरत् । तस्य हि अग्निवेताल-पुरुषकसिद्धिभ्यां सुवर्णसिद्धया .स.'चर्मकारु०' । २ घ-खानविषत' । ३ क-स्वाशया' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy