________________
प्रबन्धः ] प्रबन्धकोशेव्यपराये दर्शय रामदेवचरित्रम् । ततो विप्रः स्थानमेकं दर्शयित्वा भूपालमालपत्-- इदं भूखण्डं खानयत । ततः खानयति क्षमापालः । खनयत्सु खनकेषु प्रथमं हेमकलशः । ततो हैमी मण्डपिका प्रकटीबभूव । उपरितनं रजोऽपसारितम् । पश्चानुपूर्व्या प्रथमद्वितीयतृतीयक्षणा हैमा दृष्टा महीभुजा। चतुर्थे क्षणे नीरजे कृते 'विपुला ५ उपानदेका हैमसूत्रकृता ज्योतिर्जालजटामाणिक्यखचिता दृष्टा । भूपेन विस्मितेन च गृहीत्वा हृदि शिरसि निहिता । अहो मान्या रत्नजातिरियम् !। ततो विप्रेण विज्ञप्तम्- देव! चर्मकारपल्या उपानदेषा न स्प्रष्टुमर्हति तव विष्टपपतेः । विक्रमेणोक्तम्- सा चर्मकार्यपि धन्या यस्या ईदृगुपानत् । वद केयं कथा ? । ततो १० विप्रो ब्रूते- विश्वेश्वर ! श्रीरामे राज्यं कुर्वति सति अत्र चर्मकारसदनादि आसन् । इदमेकस्य चर्मकारस्य सदनम् । तस्य पत्नी लाडबहुला । अतो गर्वमुद्वहति । विनयं न करोति । ततः सा तेन हक्किता हता च । याहि रे दुःखं गृहीत्वा इत्युक्ता च। ततो रुष्टाऽस्यामेकस्यां उपानहि तटपतितायां अपरिहितायां द्वितीयस्यां १५ तु परिहितायां निजतातस्य सदनं जगाम । गत्वा पत्युः कठोरभाषितं पित्रे बभाण । पित्रा द्विनद्वयं स्थापिता आवर्जिता च । अथोक्ता- वत्से! कुलस्त्रियाः पतिरेव शरणम् । तत्रैव याहि । सोचे- न यामि, मानक्षयात् । द्विस्त्रिरुक्तिप्रत्युक्तयो भणिताः । पितृभ्यां भाणिताऽपि यदा पतिगृहं न याति तदा पित्रा भाषितम्- २० वत्से ! अहमेवं मन्ये- यदा श्रीरामः सीता-लक्ष्मणसहितः स्वयमत्रागत्यानुनीय त्वां श्वशुरकुले प्रहिता तदा तत्र गन्त्री त्वम् । साप्यलीकाभिमानिनी प्रवदति- इदमित्थमेव; राम एवागते यामि तत्र, नापरथा । इमं वृत्तान्तं चरत्वनियुक्ताः प्रच्छन्नाः सुरा गत्वा रामं व्यजिज्ञपन्- देव! अयं वृत्तान्तश्चर्मकारपुत्र्याः । ततो देवः २५
१ घ-उपरि हेम' । २ ख-घ-'विपुले उपा०'। ३ घ-'यथा'। । 'बहु लाडकी इति भाषायाम् । ५ ग-अतः कारणे सा' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org