________________
चतुर्विशतिप्रबन्धे [१७ श्रीविक्रमादित्यगमत् । यदीदृग् तत्समकः, आधिक्ये तु का कथेति हसितम् । विक्रमसेनेन गर्वस्त्यक्तः ॥
ततो विक्रमसेनः पुरोधसमप्राक्षीत्- यदि किल एताः काष्ठपुत्रिका मम पितरमद्भुतगुणं वर्णयन्ति तर्हि स एव लोके तत्प्रथमतयोत्तमत्वेनावर्णोि भवि यति । ततः प्राक् तु न कोऽपि ताहगुत्तमोऽभूदिति ब्रूमः । पुरोधाः प्राह- राजन्! अनादिरियं रत्नगर्भा । अनादिश्चतुर्युगी । युगे युगे नररत्नानि जायन्ते । अहमेव प्रधानमिति गर्वो न हितकारी, न च निर्वहते। यतस्त्वपितुर्विक्र
मादित्यस्य मनस्येकदा एवमभूद् यथा रामेण व्यवहृत्य लोकः १० सुखीकृतः तथाऽहमपि करिष्ये । ततो रामायणं व्याख्यापितम् ।
तंत्र यथा रामस्य दानं आगारस्थापनं वर्णाश्रमव्यवस्था गुरुभक्तिस्तथा सर्वमारब्धम् । ततोऽभिनवो राम' इत्यात्मानं पाठयति । तद् दृष्ट्वा मन्त्रिभिश्चिन्त्यते स्म- अनुचितकारी अस्मत्प्रभुर्यो गर्वादात्मानं तद्वन्मन्यते । अयं गर्वोऽस्योपायेनोत्तारयितव्यः प्रस्तावे । ___ इतश्च त्वपित्रा विक्रमादित्येन पृष्टम् - लोके स कोऽपि काप्यास्ते योऽश्रुतपूर्व रामस्याचरणं ज्ञापयति नः ? । तत एकेन ज्यायसा मन्त्रिणाऽपरमन्त्रिप्रेरितेन कथितम्- राजेन्द्र ! 'कोशला'यां विप्र एको वृद्धोऽस्ति । स काश्चित् श्रीरामस्य वार्ताः पार
म्पर्यायाताः सम्यग् 'विवेद । आहूय पृच्छ्यते । राज्ञा आहूतः सः । २० सगौरवमायातः पूजितः पृष्टः-विप्र! वद काश्चिद् रामकथा नव्याम् ।
विप्रो बभाण---- पृथ्वीनाथ ! यदि 'कोशला'यामागच्छसि तदा रामस्य कमपि प्रबन्धं साक्षाद् दर्शयामि । इह स्थितस्तु वक्तुं न पारयामि । तदा राज्ञा राज्यभारो मन्त्रिषु न्यस्तः । वयं महाचमू
सहितो वृद्धद्विजयुक् 'अयोध्यो' पशल्यां ययौ । स्कन्धावारे तस्थौ । २५ तदानीं स एव सर्वदिगीश इत्यभी: विप्रो भाषितो क्ष्मापालेन--
१ क ख-घ प्रतिषु 'त्यक्तः' अस्यानन्तरं 'इति श्रीविक्रमप्रबन्धः' एतदाधिक्यम् । २ घ-'यथा तत्र'। ३ ख--'तथाऽभिनयो । ४ ख-घ-वेद'। ५ग-'पृष्टश्च-वृद्ध ! वद।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org