________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये
जातो धनिको दृष्टः । चिन्तितं च तेन- जनप्रवादो भविष्यति यथाऽनेन स्त्रीहेतोर्हतः; तर्हि ममापि मर्तु युक्तम् । इति विचिन्त्य तेनापि स्वशिरः छिन्नम् । महति वेलायां सा प्यागता । द्वावपि तदवस्था प्रेक्ष्य चिन्तितं तया- जनोऽग्रेऽपि द्वेषिणी कथयन्नस्ति, सम्प्रति पतिघ्नीमिति कथयिष्यति; तर्हि म्रियेऽहम् । इति ध्यात्वा गले शस्त्रिका लगापिता । तावता यक्षेण करे धृता। मा साहसं कुरु । तयोक्तम्- द्वावपि जीवापय । यक्षेणोक्तम्- शिरसी निजनिजकबन्धे योजय । तयोत्सुकयाऽन्यान्यकबन्धयोय॑स्ते । तयोर्भार्याविवादो जातः। एको वदति-मदीया; द्वितीयोऽपि तथा । तर्हि कस्य सा? । राज्ञोक्तम् - यस्य कबन्धे शिरः स भर्ता, 'सर्वस्य १० गात्रस्य शिरः प्रधानम्' इति वचनात् ॥
कर्पूरसमुद्गकोऽपि कथामाहकुतोऽपि ग्रामात् स्वस्वकलाविदश्चत्वारः सुहृदो देशान्तरं चेलुः, एकः काष्ठसूत्रधारः, द्वितीयः स्वर्णकारः, तृतीयः शालापतिः, तुर्यो विप्रः । कापि वने रात्रावुषिताः । प्रथमयामे सूत्रधारः १५ प्राहरके स्थितः । तेन काष्ठपुत्रिका तरुणीसदृशी कृता समग्राऽपि । द्वितीयप्रहरे स्वर्णकारो यामिकः । तेनाभरणैर्विभूषिता । तृतीये शालापतिः । तेन क्षौमाणि परिचापिता । चतुर्थे विप्रेण सजीवा कृता । प्रातः सजीवां दृष्ट्वा सर्वेऽपि तजिघृक्षया मिथो विवदन्ते । तर्हि कस्य सा भो विक्रमादित्यनरेन्द्र ! । सा नाम श्रुत्वा चुक्षोभ। २० राज्ञोक्तम्- तेदयं न वच्मि तयोरकथयतोश्च तया जल्पितम्भो राजन् ! कस्य सा? । राज्ञोक्तम्- स्वर्णकारस्य । अधुनाऽपि यः स्वर्ण चटापयति स एव भर्ता भवति ॥ ४ ॥ __सा पप्रच्छ-- के यूयम् ? । दीपस्थेन वेतालेनोक्तम्-असौ स विक्रमादित्यः । सा हृष्टा व्यूढा च । तां गृहीत्वा'ऽवन्ती'मा- २५
१ इति विचिन्त्य ' एतदधिको ग पाठः । २ क-ख-घ-'तदहं न वेमि' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org