________________
चतुर्विंशतिप्रबन्धे [१७ श्रीविक्रमादित्यराज्ञा ताम्बूलस्थगिका द्वितीयकथां पृष्टा । वेतालाऽधिष्ठानात् साऽप्याह
कुत्रापि मृतभर्तृका ब्राह्मणी अभूत् । तस्या जारेण सह सुता जाता । तां रात्रौ बहिस्त्यक्तुं गता । इतश्च तत्र कोऽपि ५ शूलाक्षिप्तो जीवन्नस्ति । तस्य पादे स्खलिता । तेनोक्तम्-कः
पापी दुःखिनोऽपि दुःखमुत्पादयति ? । तयोक्तम्- किं दुःखम् ? । सोऽप्याह-देह पीडादिकम् , विशेषतो निष्णुत्रत्वं कथितम् । पुनः शूलानरेणोक्तम्-त्वमपि कथय । का स्वम् ? । निजचरितं तयोक्तम् ।
'तन्निशम्य तेनाप्युक्तम्-पुरा हृतं भूनिक्षिप्त अत्रस्थं द्रव्यं त्वं १० मदीयमादाय सुतां मया सह विवाहय । ब्राह्मणी पाह-त्वमिदानी
मरिष्यसि, सुता च लध्वी; कथं पुत्रोत्पत्तिः ? । तेनोक्तम्-ऋतुकाले कस्यापि द्रव्यं दत्त्वा पुत्रमुत्पादयः । तया तथैव सर्व कृतम् । पुत्रो जातमात्रो राजद्वारे क्षिप्तः । राज्ञः केनाप्यर्पितः । कालेन
निष्पुत्रस्य नृपस्य राज्ये स एवोपविष्टः । श्राद्धदिवसे 'गङ्गा'यां १५ पिण्डदानं कर्तुं गतः। जलाद्धस्तत्रयं निर्गतम् । स राजा विस्मितः ।
कस्य करस्य पिण्डं ददामि ? । तर्हि भो राजन् ! वद कस्य देयः पिण्डः ? । राज्ञोक्तम्- चौरहस्तस्य ॥
राज्ञा स्वर्णपालंकं जल्पितम् । तदपि कथामाह--
कस्मिन्नपि ग्रामे कश्चित् कुलपुत्रः स परिणीतोऽन्यग्रामे, परं २० तत्पत्नी श्वशुरगृहे नागच्छति । स स्वजनैर्निर्गुण इति हस्यते ।
एकदा सर्वजनप्रेरितो मित्रयुतो तत्र गतः । मार्गे यक्षस्य शिरो नामितम् । तत्प्रभावात् सादरा जाता, आगन्तुं प्रवृत्ता । यक्षभवने समीपमागते स एकाकी यक्ष नन्तुमागच्छत् । यक्षेण स्त्रीलोभेन तस्य शिरश्छेदितम् । महल्यां वेलायां मित्रमागतम् । तदवस्थो
१ 'अभूत्' इत्यधिको ग-पाठः। २ 'तन्निशभ्य' इत्यधिको ग-पाठः। ३ ग--'कर्तुः गतः जला'। ४ ग-'पालनक'। ५ घ-'गृहं नागच्छति' । ६ ख-घ-'यक्षे समीपः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org