________________
प्रबन्धः । . प्रबन्धकोशेत्यपराह्वये तत्र गतः । दासीभिदृष्टः स्वामिनीपार्श्वे नीतः । तया स्नानादि कारितः । रात्रौ तद्गृह एव स्थितः । त्वया स्वपल्या उक्तम्मम विक्रमादित्यो भर्ता भूयात् , किं वा यो मां चतुर्भिः शब्दैर्जागरयति । इत्युक्त्वा सुप्ता । तेन चिन्तितम्-किं चतुर्भिरपि शब्दैन जागर्ति तर्हि एनामहमेव जागरयिष्यामि । 'चत्वारः शब्दाः ५ कृताः । यदा न जागर्ति तदा पादाङ्गुष्ठश्चम्पितः । तया पादेनाहतः यत्र विक्रमादित्यः सुप्तोऽस्ति तत्र पतितः । राज्ञा पृष्टम्किमिदम् ? । तेन सर्वोऽपि वृत्तान्तः प्रोक्तः । ततो राजाऽग्निसझं वेतालमारुह्य तत्र गतः । वेतालः प्रच्छन्नो जातः । राजा दासीभिस्तत्र नीतः । तया भक्तिः कृता। तद्रूपदर्शनात् सरागा जाता, १० परं शयानया प्रतिज्ञा कृता । तथैवोक्तम् । राज्ञा दीपस्थितो वेताल उक्तः - भो प्रदीप ! कामपि कथां कथय । स वक्तुमारेभे
कश्चिद् विप्रः । तस्य पुत्री । सा चतुर्णा वराणां दत्ता पृथक्पृथग्ग्रामे । चत्वारोऽप्यागताः । विवादो जातः । तया महान्तमनर्थं दृष्ट्वा काष्ठभक्षणं कृतम् । 'स्नेहादेकेन वरेणापि चितामध्ये १५ झम्पापितम् । एकोऽस्थीनि गृहीत्वा 'गङ्गा'यां गतः । एकस्तत्रोटजं कृत्वा स्थितो भस्मरक्षार्थम् । एको देशान्तरं गतः । भ्रमता च तेन सञ्जीवनी विद्या शिक्षिता । पुनरपि तत्रागतः । अपरेऽप्यागताः । सा जीवापिता । पुनर्विवादो जातः । तर्हि चतुर्णा मध्ये कस्य सा पत्नी ? । राज्ञोक्तम्---अहं न वैच्मि, त्वमेव ब्रूहि । स आह- २० यश्चिताया सहोत्थितः स भ्राता । योऽस्थिनेता स पुत्रः । येन जीवापिता स पिता, उत्पत्तिहेतुत्वात् । यो भस्मरक्षकः स भर्ता, पालकत्वात् ।
१ चत्वारः' इत्यधिको ग-पाठः । २ ग-तत्र' । 3 'दत्ता' अस्यानन्तरं 'पृथक् पृथग ग्रामे' इति ग-पुस्तके आधिक्यम् । १ क-घ-'एकेन सह काष्ठ०'। ५गपुस्तके स्नेहादेकेन० झम्पापितम्' एतदाधिक्यम् । ६ घ-गङ्गां गतः'। ७ घ-बेनि'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org