________________
१६२
घ तुविशतिप्रबन्ध
[ १७ श्रीविक्रमादित्य
कामसेनागृहं गतः । सा तचातुर्येण हृष्टा राज्ञीसमीपं न गच्छति । श्रेष्ठी समागतः । सा राज्ञीसमीपं गता । अन्नागमनकारणं पृष्ठा । शुकचातुर्यकारणं प्रोक्तम् । तया आनायितः शुकः । सा रञ्जिता तेन, यथा राज्ञा पूर्वम् ।
एकदा शुकेन राज्ञी स्नेह परीक्षार्थ गृहगोधिका देहे गतम् । राइया तद्वियोगेन काष्ठभक्षणं कर्तुमारब्धम् । नृपजीवेन शुको जीवापितः । सा राज्ञी व्यावृत्ता । शुकेन सर्वोऽपि वृत्तान्तो रायै कथितः । राज्ञ्या कुम्भकारस्यावर्जना कृता । तेन कुम्भकारजीवेन तुष्टेन विद्याप्रदर्शनाय मृत बोक्कटदेहे स्वजीवः क्षिप्तः । नृपो निजं १० देहं गतः अजो भयात् कम्पते । राज्ञा उक्त:- - न भेतव्यम्, नाहं त्वत्समो भावी, सकृपोऽस्मि, त्वं सुखं जीव, चर, पिब । ततः कथं तेन समो भविष्यति ? ॥ ३ ॥
चतुर्थ्योक्तम्
एकदा विक्रमार्केणोत्तमं सौधं कारितम् । राजा तत्र गतः १५ विलोकनाय । तत्र चेटकयुग्ममुपविष्टमस्ति । चेटकेनोक्तम् - सुष्ठु सौधमस्ति । चेटिकयोक्तम् - यादृशं स्त्रीराज्ये लीलादेव्या बाह्यगृहमस्ति तादृशमेतत् । राज्ञा तच्छ्रुतम् । तद्गमनौत्सुक्यं जातम् । परं स्थानं तु न वेत्ति । तेन सचिन्तो जातः । भट्टमात्रो नृपाशयं ज्ञात्वा तत्स्थानकज्ञानाय चचाल । तन्मार्गे 'लवण' समुद्रं ततो २० ' धूली' समुद्रमुत्तीर्य तत्र रात्रौ मदनायतने स्थितः । " निशीथे हयषारवसंसूचितं दिव्यालङ्कारभूषितं दिव्य स्त्रीवृन्दमागमत् । तत्स्वामिन्या कामः पूजितः । व्यावृत्तमानानां तासां अश्वपुच्छे लगित्वा
,
१ घ - ' चातुर्य कारणं' । २ घ - 'शुकेन भूत्वा राज्ञा स्नेह० ' । ३ घ - 'गतं 'तद्वियोगेन' । ४' बोकडो ' इति भाषायाम् । ५ घ - युग्ममस्ति । ६ घ 'सुक्यं, स्थानं तु न वेत्ति, सच्चिन्तः भट० । ७ रात्रौ । ८ घ- दिव्यं स्त्री०
वर्तमानाना' ।
Jain Education International
For Private & Personal Use Only
1
। ९ ख
www.jainelibrary.org