________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये 'कासी'तो द्वौ द्विजो आयातौ । विक्रमार्केण पृष्टौ राजस्वरूपम् । ताभ्यामूचे- अस्मद्देशे पातालविवरमस्ति । तत्रान्धो 'राक्षसो वर्तते । अस्मद्देशस्वामी तिलकटाहे झम्पां दत्त्वा स्वमांसेन राक्षसस्य पारणं कारयति स्म । राक्षसोऽपि तं पुनर्नवीकरोति । सप्त अपवरिकाः स्वर्णसम्पूर्णाश्च कुरुते । प्रत्यहं प्रातः सप्ताप्यपवरिकास्त्यागेन रिक्तीकुरुते । श्रुत्वेदं विक्रमोऽपि तत्र गतः । कटाहे 'झम्पा दत्त्वा रक्षसा भक्षितो जीवितश्च । पुनर्भक्षितो जीवितश्च । रक्षसः शापेनान्ध्यमस्ति तच्छापान्तोऽभूत् । दृग्भ्यां पश्यति । दृष्ट्वा चाहकस्त्वं साहसी ? । तेनोक्तम्- विक्रमोऽहम् । तुष्टोऽहं ते; याचस्व । राज्ञोक्तम्-तुष्टश्चेत् तदाऽस्य राज्ञो नित्यं सप्ताप्यपव- १० रिकाः स्वर्णपूर्णा भूयांसुः । तथाऽस्य पुनरेवं कटाहझम्पापातादियातना मा भूत् । रक्षसोक्तम्-एवमस्तु । अतः कथं विक्रमार्कादधिको भावी ? । समोऽपि न, अतो हसितम् ॥ २॥
तृतीययोक्तम्___ एकदा विक्रमार्को निजपूर्वास्तव्यखल्वाटकुम्भकारयुक्तो १५ देशान्तरं गतः । परकायप्रवेशविद्यावेदी योगी "मिलितः । स आवर्जितः तुष्टश्च विद्यां दातुमारेभे । राज्ञोक्तम्- प्रथमं मम मित्रस्य ( देहि ) । तेनोक्तम्- न योग्योऽसौ । निर्बन्धात् तस्यापि दत्ता "गुणरञ्जितेन योगिना, नृपस्य पश्चाद् बलाद् दत्ता । 'अवन्ती' गतो राजा राज्यं करोति । एकदा पट्टाश्वो मृतः । विद्यापरीक्षार्थ २० राज्ञा स्वजीवस्तत्र क्षिप्तः । कुम्भकारेण स्वजीवो नृपदेहे । कुम्भकारो राज्यं करोति । तेनाश्वमारणाय चिन्तितः । नृपजीवस्तु पूर्वमृतशुकदेहे प्रविष्टः । शुकोऽपि सोमदत्तश्रेष्ठिभार्याप्रोषितभर्तृका
१ ग-घ-राज्यस्व०' । २ घ-'राक्षसोऽस्ति'। क- 'तैलकटाहे', ख-घ'तेन (१)कटाहे' । ४ ग-'झम्पा दत्ता'। ५ग-'राक्षसस्य शापे०। ६ तेनोकाम्' इत्य. घिको ग-पाठः। ७ 'तुष्ट श्वेत्० राज्ञो' इत्यधिको ग--पाठः । ८ ग-'इसित।। ९ विगत केश। 1 ख 'मीलितः। ११ 'गुण. बलाद् दत्ता' इत्यधिको ग.पाः । पर्विशतिः २१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org