________________
५
चतुर्विशतिप्रबन्धे
[१७]
॥ अथ विक्रमादित्य प्रबन्धः ॥
[ १७ श्रीविक्रमादित्य
विक्रमादित्यपुत्रं विक्रमसेनराजानं प्रति पुरोधसाऽऽशर्दित्ता येत्वं पितुर्विक्रमादित्यादधिको भूयाः । तदा देवताधिष्ठिताभिः सिंहासनस्थाभिश्चतसृभिः काष्ठपुत्रिकाभिर्हसितम् । तदा विक्रमसेनेन पृष्टाः पुत्रिका:- किमिति हस्यते । ताः प्रोचुः तेन सह ? -- समत्वमपि न घटते, कुतो नामाधिक्यम् ? । आद्याह
-
'अवन्त्यां ' विक्रमी राजा अपूर्वसत्यवार्त्ताकथकाय दीनारपश्चशतीं दत्ते । एवं श्रुत्वा खप्परचौरेण दीनारपश्चशती याचिता । १० वार्ता चैका कथिता, यथा
Jain Education International
'गन्धवत्' स्मशानसमीपे पातालविवरकूपे मया दीपो देवीहरसिद्धिप्रेषितः पतन् दृष्टः । मयाऽपि तत्पृष्ठे झम्पापितम् । पाताले तत्र दिव्यं सौधं दृष्टम् । तत्र तैलकटाहिका ज्वलन्ती दृष्टा । तत्पार्श्वे एको नरो दृष्टः पृष्टश्च - किमर्थं त्वमिह ? । तेनोक्तम्१५ अत्र सौधे शापभ्रष्टा दिव्यकन्याऽस्ति । सा ब्रूते - यस्तैलकटाहिकायां झम्पां दाता स मे वर्षशतं पतिर्भविता । अतोऽहमेतत्पतिस्वार्थमत्र तिष्ठामि परं साहसं नास्ति । इति वार्तया पञ्चशती लब्धा । तेन खर्परेण समं राजाऽपि तत्र गतो विवरेण । तैलकटाहिकायां झम्पा दत्ता । कन्यया सोऽमृतेन जीवितः । यावत् सा २० राजानं वृणुते तावद् राज्ञेोक्तम्- अग्रेतनं नरं वरय । वृतः स तया । एवं यः परोपकारी तदधिकोऽयं कथं भावी ? ॥१॥
द्वितीययोक्तम्
१ ख- घ - ' तदा चतसृभिर्वाराङ्गनाभिर्हसितं देवताधिष्ठिताभिः सिंहासनत्वमपि न घटते' । २ ख-घ - 'कपरकचौरेण' । ३ ग - घ - 'गन्धवहश्म ०' । ४ घ - 'पातालखेचरं (?) कूपे' ।
For Private & Personal Use Only
www.jainelibrary.org