________________
प्रबन्ध
प्रबन्धकोशेत्यपराहये प्रेषितश्चान्यदा राज्ञा कामरूपभूपसाधनार्थं गतः । युद्धे धातैर्जर्जरितो विजित्य तमागमत् स्वस्थानम् । व्याहृताश्च राज्ञा वैद्याः । यावद् 'रोगोऽपि घातव्रणो विकसति तैरुक्तम्-देव ! काकमांसेन शोभनो भवत्ययम् । तस्य च जिनदासश्रावकेण साधू प्रागेव मैत्र्यमासीत् । ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना येन तद्वाक्यात् काकमांस भक्षयतीति । तदाऽऽहूतश्च जिनदासो ऽवन्ती'मागच्छनुभे दिव्ये सुदत्यौ रुदत्यौ अद्राक्षीत् । तेन पृष्टे-किं रुदिथः ? । ताभ्यामुक्तम्-अस्माकं भर्ती 'सौधर्मा'च्च्युतः । अतो राजपुत्रं वङ्कचूलं प्रार्थयावहे, परं त्वयि गते स मांसं भक्षयिता; ततो गन्ता दुर्गतिम् , तेन रुदिवः । तेनोक्तम्-तथा १० करिष्ये यथा तन भक्षयिता । गतश्च तत्र राज्ञोपरोधाद् वङ्कचूलमवोचत्-गृहाण बलिभुपिशितम् । पटूभूतः सन् प्रायश्चित्तं चरेः। वङ्कचूलोऽवोचत्- जानासि त्वं यदाचर्याप्यकार्य प्रायश्चित्तं ग्राह्यम् । ततः प्रागेव तदनाचरणं श्रेय इति 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति वाक्यानिषिद्धो नृपतिः। विशेषप्रतिपन्नव्रतनि- १५ वहश्वाऽच्युत'कल्पमगमत् । वलमानेन जिनदासेन ते देव्यौ तथैव रुदत्यौ दृष्ट्वा प्रोक्तम्- किमिति रुदिथः ? न तावत् स मांसं ग्राहितः । ताभ्यां अभिदधे- स ह्यधिकाराधनावशा'दच्युतं' प्राप्तः । ततो नाभवदस्मद्भर्तेति । एवं जिनधर्मप्रभावं सुचिरं विभाव्य जिनदासः स्वावासमाससादेति । अस्य ढिम्पुरी'तीर्थस्य २० निर्मापयिता वङ्कचूलः।
॥ इति वकचूलप्रबन्धः ॥ १६ ॥
१ घ-रौद्रोऽपि' । २ काकस्य मांसम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org