________________
१५८
५
चतुर्विंशतिप्रबन्धे
[ १६ श्रीवङ्क चूळ
इत्याख्यां प्राचीकथन् । श्रीमच्चेल्लणदेवस्य महीयस्तममाहात्म्यनिधेः पुरस्ताभ्यां महर्षिभ्यां सुवर्णमुकुटाम्नायः साधितः । प्रकाशितश्व भव्येभ्यः । सा च 'सिंहगुहा' पल्ली कालक्रमाद् 'ढिम्पुरी' त्याख्यया प्रसिद्धा नगरी सञ्जाता । अद्यापि स भगवान् श्रीमहावीरः स च वेल्लणपार्श्वनाथः सकलसङ्घेन तस्यामेव पुर्या यात्रोत्सवेराराध्यते इति ।
|
अन्यदा वङ्कचूल 'उज्जयिन्यां खातपातनाय चौर्यवृत्या कस्यापि श्रेष्ठिनः सद्मनि गतः कोलाहलं श्रुत्वा चलितः । ततो देवदत्ताया गणिकाया गृहं प्राविशत् । दृष्ट्वा सा कुष्ठिना सह प्रसुप्ता । १० ततो निःसृत्य गतः श्रेष्ठिनो वेश्म । तत्रैकविंशोपको लेख्यके त्रुटयतीति परुषवाग्भिर्निर्भर्त्य निःसारितो गेहात् पुत्रः श्रेष्ठिना । विरराम च यामिनी । यावद् राजकुलं यामीत्यचिन्तयत् तावदुज्जगाम धामनिधिः । पल्लीपतिश्च निःसृत्य नगराद् गोधां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागाद् राजभाण्डागाराद् बहिः । गोधापुच्छे विलग्य १५ प्राविशत् कोशम् । दृष्टो राजाप्रमहिष्या रुष्टया । पृष्टश्च - करत्वमिति ? | तेनाचे—चौर इति । तयोक्तम् — मा भैषीः । मया सह सङ्गमं कुरु । सोऽवादीत् - का त्वम् ? । साऽप्यूचे - अग्रमहिष्यहमिति । चौरोऽवादीत् — यद्येवं तर्हि ममाम्बा भवति, अतो यामि । इति निश्चिते तया स्वाङ्गं नखैर्विदार्य पूत्कृतिपूर्वमाहूता आरक्षकाः । २० गृहीतस्तैः । राज्ञा चानुनयार्थमागतेन तद् दृष्टम् । राज्ञोक्ताः स्वपूरुषाः -- मैनं गाढं कुवींध्वमिति । तै रक्षितः । प्रातः पृष्टः क्षितिभृता । तेनाप्युक्तम् — देव ! चौर्यायाहं प्रविष्टः पश्चाद् देवभाण्डागारे देव्या दृष्टोऽस्मि । यावदन्यन्न कथयति तावत् तुष्टो विदितवेद्यो नरेन्द्रः स्वीकृतः पुत्रतया स्थापितश्च सामन्तपदे | २५ देवी विडम्ब्यमाना रक्षिता वङ्कचूलेन । अहो नियमानां शुभं फलमिति अनवरतमयमध्यासीत् ।
|
१ सूर्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org