________________
प्रकाः
प्रवन्धकोशेत्यपराजये जलदुर्गमिति कृत्वा 'चर्मण्वत्यां' कौटिम्बिके प्रक्षिप्य स्थिता । चिरं युद्धवतस्तस्य कोऽपि खलः किल वार्तामानैषीद् यदयं नृपतिस्तेन परचक्राधिपतिना व्यापादित इति । तच्छुत्वा देवी तत्कौटिम्बकमाक्रम्यान्तर्जलतलं प्राक्षिपत् । स्वयं च परासुतामासदत् । स च नृपतिः परचक्र निर्जित्य यावन्निजनगरमागमत् ५ तावद् देव्याः प्राचीनवृत्तमाकर्ण्य भवाद् विरक्तः पारमेश्वरीं दीक्षां कक्षाचक्रे । तत्रैकं बिम्ब देवेन बहिरानीतं पूज्यमानं चास्ति । द्वितीयमपि चेनिःसरति तदोपक्रम्यतामिति । तदाकर्ण्य वङ्कचूलः परमाहतचूडामणिस्तमेव धीवरं तदानयनाय प्रावीविशत् । स च तद् बिम्बं कटीदनवपुर्जलतले तिष्ठमानं बहिस्थशेषाङ्गमधोव- १० लोक्य निष्कासनोपायाननेकानकार्षीत् । न च तन्निर्गतमिति दैवतप्रभावमाकलय्य समागत्य च विशामीशाय न्यवेदयत् तत्स्वरूपम् । अद्यापि तत् किल तत्रैवास्ते । श्रूयते ह्यद्यापि केनापि धीवरस्थविरेण नौकास्तम्भे जाते तत्कारणं विचिन्वता तस्य "हिरण्यमयरथस्थयुगकीलिका लब्धा । तां कनकमयीं दृष्ट्वा १५ लुब्धेन तेन व्यचिन्ति यदिमं रथं क्रमात् सर्व गृहीत्वा ऋद्धिमान् भविष्यामीति । ततश्च स रात्रौ निद्रां न लेभे । उक्तश्च केनापि अदृष्टपुरुषेण यदिमं तत्रैव विमुच्य सुखं स्थयाः, नो चेत् सद्य एव त्वां हनिष्यामीति । तेन भयार्तेन तत्रैव मुक्ता युगकीलिका इत्यादि । किं न सम्भाव्यते देवताधिष्ठितेषु पदार्थेषु ! । श्रूयते च २० सम्प्रत्यापे काले-कश्चिन् म्लेच्छः पाषाणपाणिः श्रीपार्श्वनाथप्रतिमां भक्तुमुपस्थितः स्तम्भितबाहुर्जातः । महति पूजाविधौ कृते सज्जतामापन्न इति ।
श्रीवीरबिम्बं महत् तदपेक्षया लघीयस्तर श्रीपार्श्वनाथबिम्बमिति महावीरस्याभकरूपोऽयं देव इति 'मेदाश्चेल्लण' २५
घ-'ततः श्रुत्वा' । २ मृत्युत्वम् । ३ नृपाय । । क-घ-'हिरण्मयः' ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International