________________
चतुर्विंशतिप्रबन्धे
[१६ श्रीवङ्क चूल
ततो राज्ञः कथं छुटितव्यम् ? । इति चिरं विषद्य वङ्कचूलस्य पल्लीपतेर्विज्ञापितं तत्, यथा-- अस्य राजकीयवस्तुनो विश्वितिः कार्यताम् । तेनापि धीवर आदिष्टः तच्छेोधयितुं प्राविशदन्तर्नदीम् । विचिन्वता ' चान्तर्जलतलं दृष्टं तेन हिरण्यमयरथस्थं जीवन्तस्वामिश्री पार्श्वनाथबिम्बं यावत् पश्यति स्म स बिम्बस्य हृदये तत्कच्चोलकम् । धीवरेणोक्तम् - धन्याविमौ दम्पती यद् भगवतो वक्षसि घुसृणचन्द्रचन्दनविलेपनाहे स्थितमिदम् । ततो गृहीत्वा तदर्पितं नैगमस्य । तेनापि दत्तं तस्मै बहु द्रव्यम् । उक्तं च बिम्बवरूपं नाविकेन । ततो वचूलेन श्रद्धालुना तमेव प्रवेश्य १० निष्कासितं तद् बिम्बम् | कनकरथस्तु तत्रैव मुक्तः । निवेदितं हि स्व प्राग् भगवता नृपतेः- -यत्र क्षिप्ता सती पुष्पमाला गत्वा तिष्ठति तत्र त्रिम् शोध्यमिति । तदनुसारेण बिम्बमानीय समर्पितं राज्ञे वङ्कचूलाय । तेनापि स्थापितं श्रीवीरबिम्बस्य बहिर्मण्डपे, यावत् किल नव्यं चैत्यमस्मै कारयामि इत्यभिसन्धिमता । करिते च १५ चैत्यान्तरे यावत् तत्र स्थापनार्थमुत्थापयितुमारभन्ते राजकीयाः पुरुषास्तावद् बिम्बं नोत्तिष्ठति स्म । देवताधिष्ठानात् तत्रैव स्थितमद्यापि तथैवास्ते । धीवरेण पुनर्विज्ञप्तः पल्लीपतिः -- यत् तत्र देव ! मया नद्यां प्रविष्टेन बिम्बान्तरमपि दृष्टम् । तदपि बहिरा - नेतुमौचितीमञ्चति । पूजा रूढं हि भवति । ततः पल्लीश्वरेण पृष्टा २० स्वपरिषत् - भो जानीते कोऽपि अनयोर्बिम्बयोः संविधानकम् । केन खल्वेते नद्यन्तर्जलतले न्यस्ते ? । इत्याकण्यैकेन पुराविदा स्थविरेण विज्ञप्तम् —
१५६
देव ! एकस्मिन्नगरे पूर्वं नृपतिरासीत् । स च परचक्रेण समुपेयुषा सार्धं योद्धुं सकलचमूसमूहं सन्नह्य गतः । तस्याप्र२५ महिषी च निजं सर्वस्वमेतच्च बिम्बद्वयं कनकरथस्थं विधाय
१ घ - 'नंदम्' । २ घ - ' भ्रन्तर्जल० । ३ क - घ - 'हिरण्मय० । ४ कर्पूर० ५ खवदन ० ' । ६ ख - घ - ' तथैव। ७ क ख - घ - 'नृपेण' । ' घ- 'समूलसन्नहृतेन गतः '
.
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org