________________
प्रबन्धः] प्रबन्धकोशेत्यपराह्वये
१५५ तद्वचः श्रुत्वा लज्जितोऽसावपृच्छत्- किमतेदिति ? । साऽपि नटवृत्तान्तमचीकथत् -भ्रातरत्र प्रतिभूपतेनटवेषधराश्चरा आगच्छन् । यदि पल्लयां वङ्कचूलोऽस्ति तदाऽस्माकं नृत्यं पश्यतु इत्यब्रुवन् । तदा मयाऽचिन्ति- साम्प्रतं भ्राता वकचूलो नास्ति गृहे । तदा मया तव वेषधारिण्या नृत्यमकारि तेषां पार्था- ५ त् । दानमदायि तेभ्यः । गताश्च ते खस्थानम् । ततो बहुनिशागमनेन निद्रापरवशा तेनैव वेषेण भ्रातृजायापार्श्वे अखपम् । इति वृत्तान्तं श्रुत्वाऽतीव मनसि खेदो दधे तेन ।
कालक्रमेण तस्य तद्राज्यं शासतस्तत्रैव पल्लयां तस्यैवाचार्यस्य शिष्यौ धर्मऋषि-धर्मदत्तनामानौ कदाचिद् वर्षांरात्रमवास्थिषाताम्। १० तत्र तयोरेकः साधुस्त्रिमासक्षपणं विदधे, द्वितीयस्तु चतुर्मासक्षपणम् । वङ्कचूलस्तु तदत्तनियमानामायतिशुभफलतामवलोक्य व्यजिज्ञपत्
हे भदन्तौ ! मदनुकम्पया कमपि पेशलं धर्मोपदेशं दैत्तः, ततस्ताभ्यां चैत्यविधापनदेशना पापनाशिनी विदधे । तेनापि 'शराविका' पर्वतसमीपवर्तिन्यां तस्यामेव पल्लयां 'चर्मण्वती'सरित्तीरे १५ कारितमुच्चैस्तरं चारु चैत्यम् । स्थापितं च तत्र श्रीमन् महावीरबिम्बम् । तीर्थतया च रूढं तत्। तत्रायान्ति स्म चतुर्दिग्भ्यः सङ्घाः । कालान्तरे कश्चिन्नैगमः सभार्यः सर्वर्या तद्यात्रायै प्रस्थितः प्राप्तः क्रमेण 'रन्ति'नदीम् । नावमारूढौ च दम्पती चैत्यशेखरं व्यलोकयताम् । ततः सरभसं सौवर्णकच्चोलके कुङ्कुमचन्दन- २० कर्पूरं प्रक्षिप्य जलं क्षेप्तुमारब्धवती नैगमगृहिणी। प्रमादात् निपतितं तदन्तर्जलतलम् । ततोऽभाण वणिजा-अहो इदं कच्चोलकं नैककोटिमूल्यरत्नखचितं राज्ञा ग्रहणकेऽर्पितमासीत् ।
१ घ-'कथत् कथं भ्रात.' । २ 'ततो बहु' इत्यारभ्य 'परवशा'पर्यन्तं पाठाधिक्यं ग-पुस्तके वर्तते । ३ ख-घ- 'तेन वेषेण' । । ख-घ -'दत्तम्' । ५ ख--शिरोनामिदंविका(१)पर्वत.', घ.- 'शिरानामदंविकापर्वत०' । ६ ख-घ--' तत्र यान्ति' । ७ घ-- रतिनदीम्'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org